SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कमविपाकः ॥ ४७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्रम् । समासान्तो ऽत्प्रत्ययः । न्यग्रोधवत्परिमण्डलं विस्तरभूरि न्यग्रोधपरिमण्डलम् । यथा न्यग्रोध उपरि संपूर्णावयवोऽधस्तु हीनः, तथा यत्संस्थानं नाभेरुपरि संपूर्णप्रमाणं, अधस्तु न तथा तन्यग्रोधपरिमण्डलम् । यत्र नाभेरधः सर्वाव| यवाः समचतुरस्रलक्षणाऽविसंवादिनः उपरि तु न तदनुरूपास्तत् सादि उत्सेधबहुसंस्थानं, सांदीति शाल्मलीतरुमाचक्षते प्रावचनिकाः । तस्य हि स्कन्धो द्राघीयान् उपरि तु न तदनुरूपा विशालतेति । तथा यन्त्र शिरो ग्रीवं हस्तपादादिकं च यथोक्तप्रमाणोपपन्नं कोष्ठं उदरादि मडहं लघु तद्वामनसंस्थानम्, कुब्जमित्यन्ये । यत्र तु उरउदरादि यथोक्त प्रमाणोपेतं, अधस्तनकायस्तु पादादिः, उपलक्षणत्वात् शिरोग्रीवादिकं च मडहं लघु भवति तत्कुब्जम्, वामनमित्यन्ये । यत्र सर्वेऽप्यवयवा असंस्थिता यथोक्तप्रमाणहीनास्तत् हुण्डसंस्थानम् । तेषां म्वरूपमिदं तुल्यादिकं भवति । इति गाथार्थः ॥ १११ ॥ ११२ ॥ एतदुदयमादर्शयति- जस्सुदपणं जीवे, चउरंसं नाम होइ संठाणं । तं चउरंसं नामं, सेसावि हु एवं संठाणा ॥ ११३ ॥ व्याख्या- 'यस्य' कर्मण: 'उदयेन' अनुभवेन 'जीवे' जीवस्य 'चतुरस्रं' ऊर्द्धावस्थितसूत्रसमं तिर्यक्प्रमाणं चतुरस्रमुच्यते संस्थानं 'भवति' जायते 'नाम' संज्ञा स्फुटं वा 'संस्थानम्' आकारविशेषस्तचतुरस्रं नास । 'शेषाण्यपि' न्यग्रोधमण्डलादीन्यप्येवमेव संस्थानानि द्रष्टव्यानि । 'अपि' समुच्चये, 'हु' पादपूरणे, समच१-२ " साचि" इत्यपि पाठः । For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ ४७ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy