SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धीयते । वज्रं पुनः कीलिका मन्तव्या, सा च प्रतीता । उभयतो द्वयोरपि पार्श्वयोर्मर्कटबन्धः प्रतीतः, स विद्यते यस्मिन् संहनने तन्नाराचसंहननं 'विजानीहि ' अवबुध्यख । अयमत्र भावार्थः - यथा हस्तयोरुभयतो मर्कटबन्धेन कलाचीग्रहणे मध्यदेशे लोहपट्टकेन वेष्टयित्वा पट्टबन्धनमध्यदेशे वेधं दत्त्वा कीलिका प्रक्षिप्यते, तस्यां प्रक्षिप्तायां यादृशः सञ्चयो भवत्यचलः कालान्तरस्थायी बलवांस्तथाऽस्थिसञ्चयो यस्मिन् संहनने सति भवति तत्संहननं वज्रऋषभनाराचं भवति । इति गाथार्थः ॥ १०९ ॥ संहननोदयद्वारेण वज्रऋषभनाराचसंज्ञामाह - ( पारमा० ) - ऋषभः परिवेष्टनपट्टो भवति । वज्रं कीलिका ज्ञातव्या । उभयतो मर्कटबन्धं नाराचं तद्विजानीहि । अयमर्थः - द्वयोरस्थनोरुभयतो मर्कटवन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकापरपर्यायं वज्रनामकमस्थि यत्र भवति तद्वज्रर्षभनाराचम् । यत्पुनः कीलिकारहितं तद् ऋषभनाराचम् । यत्र पुनः कीलिकया ऋषभसंज्ञपट्टेन च रहितो मर्कटबन्धो भवति तन्नाराचम् । यंत्र त्वेकपार्श्वे मर्कटबन्धो द्वितीयपार्श्वे च कीलिका | भवति तदर्द्धनाराचम् । यत्र त्वस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिका । यत्र तु परस्परं पर्यन्तसंस्पर्शलक्षणां सेवामाऋतान्यागतान्यस्थीनि भवन्ति स्नेहाभ्यवहार तैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते तत्सेवार्तम् । इति गाथाद्वयभावार्थः ॥ १०० ॥ एतद्विपाकदर्शना वाह For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy