________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
औदारिकादिसंघातखरूपमाह(पारमा०) संघातनाम 'अधुना' बन्धननामानन्तरं भण्यत इत्यध्याहारः। व्युत्पत्तिमाह-'संघातयति' पिण्डीकरोति औदारिकादिपुद्गलान् येन तेन हेतुना संघातमुच्यते । तच्च पश्चधेत्याह-औदारिकसंघातं, वैक्रियसंघातं, यावत्करणादाहारकसंघातं, तैजससंघातं, कार्मणसंघातम् । इति गार्थार्थः ॥ १०६ ॥ एतद्व्याचष्टे
ओसलाई जे देहपुग्गला होंति जम्मि ठाणम्मि।ते ठंति तम्मि ठाणे, संघायणकम्मणो उदए ॥ १०७॥ ___ व्याख्या-औदारिकमादिर्येषां ते औदारिकादयः, आदिशन्दाढक्रियाहारकतैजसकार्मणपुद्गलपरिग्रहः । ये देहे पुद्गलादेहपुद्गलाः भवन्ति' जायन्ते यस्मिन् स्थाने ते औदारिकादयः पुद्गलास्तस्मिन्नेव स्थाने भवन्ति नापरत्र, संघातनकर्मणः 'उदये' प्रादुर्भावे । अयमन्त्र भावार्थ:-ये खौदारिकादिषु शरीरेषु शिरम्मभृत्यवयवानां निर्वतका औदारिकादिपुद्गला ये यस्य स्थानस्य योग्यास्ते तस्मिन्नेव शिरप्रभृतिस्थानके भवन्ति । न विपर्ययेण यस्य कर्मणः प्रभावात्तत्संघातननामकर्मोच्यते । इति गाथार्थः॥ १०७॥
उक्तं संघातनाम, अधुना संहननान्याह(पारमा०) औदारिकादयो ये देहपुद्गला यस्मिन् स्थाने भवन्ति ते संघातकर्मण उदयेन तस्मिन् स्थाने तिष्ठन्ति । अयमभिप्राय:-ये औदारिकपुद्गला यत्र योग्यास्तान् तत्र संघातयति यत्कर्म निजोदयात् । यथा शिरोयोग्यान
१ "हुति" इति पाठानुसारेण व्याख्यातं व्याख्याकारेण ॥
CASSESCASCHARG-SACX
For Private And Personal Use Only