________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
257
धंगदेव का खजुराहो अभिलेख स्पष्टं नष्टेषु दूरं क्वचिदपि रिपुषु क्षत्रतेजोम्बुराशियस्याजेन व्यरंसीदभुवनविजयिनश्चण्डदोर्दण्डकण्डूः।।6॥ यो लक्षवर्मनृपतेः शरदिन्दुकान्तमाख्यातुमिच्छति यशः प्रसरं वचोभिः। दीपप्रभापरिचयेन विमुग्धबुद्धिर्मध्यन्दिने दिवसनाथमुदीक्षतेऽसौ187॥ यन्नाक्रामदवक्रमानसलिव्याजप्रयोगापतत्पृथ्वीलंघनलब्धलाघवमघच्छेदी पदं वामनः। लोकालोकशिरः शतप्रतिहतज्योतिर्विवस्वान्नय - त्तस्य क्रामति तन्निशाकरमहः श्रीस्पर्धि शुभ्रंः यशः।8। धीरो दिग्विजयेषु कलिसरसीं तीव्रप्रतापं दध निःशेषद्विषदव्यथोभयतटीविन्यस्तसेनाभरः। मजन्मत्तकरीन्द्रपङ्किलजलां श्रीलक्षवर्माभिधश्चक्रे शक्रसमः कलिन्दतनयां जह्नोः सुतां च क्रमात्॥19॥ आस्थानेषु महीभुजां मुनिजनस्थाने सतां सङ्गमे ग्रामे पामरमण्डलीषु वणिजां वीथीपथे चत्वरे। . अध्वन्यध्वगसंकथासु निलयेऽरण्यौकसां विस्मयान्नित्यं तद्गुणकीर्तनैकमुखराः सर्वत्र सर्वे जनाः॥4॥ यस्यानने शरदखण्डशशिप्रसन्ने कोपं व्यनक्ति हृदयस्थमरिप्रियाणाम्। सिन्दूरभूषणविवर्जितमास्यपद्ममुत्सृष्टहारवलयं कुचमण्डनं च।4।। तेनैतच्चारुचामीकरकलशलाद्व्योमधाम व्यधायि। भ्राजिष्णु प्रांशुवंशध्वजपटपटलान्दोलिताम्भोजवृन्दम्॥ देत्यारातेस्तुषारक्षितिधरशिखरस्पर्धि वर्धिष्णुरागा। दृष्टे यात्रासु यत्र त्रिदिववसतयो विस्मयन्ते समेताः।।42॥ कैलासाद्भोटनाथः सुहृदिति च ततः कीरराजः प्रपेदे साहिस्तस्मादवाप द्विपतुरगबलेनानु हेरम्बपालः। तत्सूनोर्देवपालात्तमथ हयपतेः प्राप्त नित्ये प्रतिष्ठा वैकुण्ठं कुण्ठितारिः क्षितिधरतिलकः श्रीयशोवर्मराजः।।3।।
For Private And Personal Use Only