________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
172
प्राचीन भारतीय अभिलेख :
लब्ध्वा कालं भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरदनिकरैरुत्तरां भीमरथ्याः। यस्यानीकैयुधि भयरसज्ञत्वमेकः प्रयात - स्तत्रावाप्तं फलमुपकृतस्यापरेणापि सद्यः।।17॥ वरदातुङ्गतरङ्गरङ्गविलसद्धंसावलीमेखला वनवासीमवमृद्नतः सुरपुरप्रस्पर्धिनी सम्पदा। महता यस्य बलार्णवेन परितः सच्छादितोर्वीतलं स्थलदुर्ग जलदुर्गतामिव गतं तत्तत्क्षणे पश्यताम्॥8॥
गङ्गालुपेन्द्रा व्यसनानि सप्त हित्वा पुरोपार्जितसम्पदोऽपि। 10. यस्यानुभावोपनताः सदासन्नासन्नसेवामृतपानशौण्डाः।19॥
कोकणेषु यदादिष्टचण्डदण्डाम्बुवीचिभिः। उदस्तास्तरसा मौर्यपल्वलाम्बुसमृद्धयः॥20॥ अपरजलधेर्लक्ष्मी यस्मिन् पुरीं पुरभित्प्रभे मदगजघटाकारैर्नावां शतैरवमृद्नति। जलदपटलानीकाकीर्णं नवोत्पलमेचकं जलनिधिरिव व्योम व्योम्नः समोऽभवदम्बुधिः॥1॥ प्रतापोपनता यस्य लाटमालवगुर्जराः। दण्डोपनतसामन्तचर्याचार्या इवाभवन्।22॥ अपरिमितविभूतिस्फीतसामन्तसेना मुकुटमणिमयूखाक्रान्तपादारविन्दः। युधि पतितगजेन्द्रानीकबीभत्सभूतो भयविगलितहर्षो येन चाकारिहर्षः।23।। भुवमुरुभिरनीकैः शासतो यस्य रेवाविविधपुलिनशोभाऽवन्ध्य विन्ध्योपकण्ठः।
अधिकतरमराजत्स्वेन तेजोमहिम्ना शिखरिभिरिभवों वर्मणा स्पर्द्धयेव॥24॥ विधिवदुपचिताभिः शक्तिभिः शक्रकल्पस्तिसृभिरपि गुणौधैः स्वैश्च माहाकुलाद्यैः।
11.
12.
For Private And Personal Use Only