________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिट्सूत्राणि ॥
[१, २. ३.४. ५.
उदात्तो भवति । पाटला पालका फलेरुहा सुरूपा । अपालङ्कार्थीनामपि । अपालङ्क : अवघातकः । अम्बाथानामपि । अम्बा अक्का अल्ला । सागराथीनामपि । सागरः समुद्रः उदधिः ॥
गेहाथानामस्त्रियाम् ॥ ३ ॥
सि० कौ० ॥ गेहम् । नविषयस्य । २.३. । इति प्राप्ते । अस्त्रियां किम् । शाला। आंद्युदात्तो ऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ ल० श० ॥ आबुदात्तो ऽयमिति । नन्वनेनान्तोदात्तत्वाभावे ऽपि नियमत आबुदात्तत्वं केन स्याद्विधायकाभावात् । अटो नियम इति वक्तुं युक्तमित्यत आह । इहेवेति । एषां सूत्राणामायसूत्रवाधकबाधनार्थत्वादस्त्रियामित्येतदभावे स्त्रियामप्यनेन वाधकं वाध्येत । वाधकं चानेनैवानुमीयते । तच्च मध्योदत्तत्वस्यात्रासंभवात्सवीनुदात्तविधायकस्य च फिट् - सूत्रेष्वदर्शनादाद्युदात्तविधायकमेवेति भावः । स्त्रीविषय | २. २०. । इत्याद्युदात्तत्वमित्यन्ये ॥
फि० वृ० ॥ गेहार्थीनां शब्दानामन्त उदात्तो भवत्यस्त्रियाम् । गेहं हर्म्य हलाहलम् । गेहार्थानामिति किम् । कुण्डं वाह्यम् । अस्त्रयामिति किम् । शाला ॥
गुदस्य च ॥ ४ ॥
सि० कौ० ॥ अन्त उदात्तः स्यात् । न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् । आन्त्रेभ्यस्ते गुदाभ्यः । ऋ० वे० १०. १६३. ३. । स्वाङ्गशिटामदन्तानाम् । २. ६. । इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥
•
ल० श० ॥ गुदमिति । नविषयस्य । २. ३. । इति स्वाङ्गशिटाम् । २. ६. । इति वा प्राप्ते । ननु गुदाशब्दस्यादन्तत्वाभावात्कथं स्वाङ्गेत्यस्यं प्राप्तिः । अत आह । अन्तरङ्गमिति ॥
फि० वृ° ॥ गुदस्यास्त्रियामन्त उदात्तो भवति । अगेहार्थ आरम्भः । गुदम् । अस्त्रियामिति किम् । या च ते गुदा । आन्त्रेभ्यस्ते गुदाभ्यः । ऋ० वे० १०. १६३. ३. ॥
ध्यपूर्वस्य स्त्रीविषयस्य ॥ ५ ॥
सि° कौ° ॥ धकारयकारपूर्वो यो ऽन्त्यो ऽच् स उदात्तः । अन्तध 1
For Private And Personal Use Only