________________
Shri Mahavir Jain Aradhana Kendra
www. kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ तृतीयं व्याख्यानम् -
तओ पुणो सरसकुसुममंदारदामरमणिजभूअं, चंपगासोग-पुन्नाग-नाग- पिअंगु-सिरीस मुग्गरग-मल्लिआ जाइ- जूहि अंकोल कोजकोरिंट-पत्तदमणय- नवमालिअ-बडल-तिलय- वासंतिभ- पउमुप्पल-पाडल- कुंदाइमुत्त-सहकारसुरभिगंधि, अणुवममणोहरेणं गंधेणं दस३८–ततः पुनस्त्रिशला पञ्चमे स्वमे पुष्पमाल्यं पश्यतीति योजना, किंविशिष्टं ?, 'सरसानि' सद्यस्कानि कुसुमानि येषु, एतादृशानि यानि 'मन्दारदामानि' कल्पवृक्षमाल्यानि, तै 'रमणीयभूतं' अतिमनोहरं । पुनः किंविशिष्टं ?, चम्पकाशोकौ प्रतीतौ, पुन्नाग-नाग- प्रियङ्गु-शिरीषाः वृक्षविशेषाः, मुद्गरः-प्रतीतः, मल्लिका-जातियूथ्यो वल्लिविशेषाः प्रतीताः, अङ्कोला - (अङ्कोटः) "कोज" त्ति कुब्जः अघाडो' इति गुर्जरे, कोरण्टो वृक्षविशेषः, 'दमनकः' सुगन्धिर्वनस्पति विशेषस्तस्य पत्राणि, तथा नवमालिका - लताविशेषः, बकुल:- "मौलसरी” इति नाम्ना प्रतीतो वृक्षविशेषः, तिलकोऽपि वृक्षः, वासन्तिका लता, पद्मोत्पले - सूर्यचन्द्रविकाशिकमले, पाटलकुन्दातिमुक्ताः वृक्षविशेषाः, सहकारः प्रतीतः, एतेषां सर्वेषां पुष्पाणां सुरभिगन्धो यत्र, तं । अनुपममनोहरेण गन्धेन दशापि दिशो 'वासयत्' सुरभीकुर्वत् । तथा सर्वर्त्तुकं यत्सुरभिक्कुसुममाल्यं, तेन धवलं, अर्थात्षण्णामपि ऋतूनां सत्कानि कुसुमानि तत्र दामनि वर्त्तन्ते, तथा 'विलसतां' दीप्यमानानां कान्तानां च बहूनां नीलपीतादिवर्णानां या 'भक्ती' रचना, तया 'चित्रं' आश्चर्यकारि, यद्वा चित्रान्वितमिव । एतेन तत्र पुष्पदामनि
For Private And Personal Use Only