________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुच्छिसि गम्मत्ताए साहरिए, तं रयाणि च णं सा तिसलाखत्तिआणी तंसि तारिगंसि वासघरंसि अम्भितरओ सचित्तकम्मे बाहिरओ दुमिअघट्टमट्ठे विचित्तउल्लोअचिल्लिअतले मणिरयणपणासिअंधयारे, बहुसमसुविभत्तभूमिभागे पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुकतुरुक्कडज्यंतधूवमघमघंतगंधुद्ध आभिरामे, सुगंधवरगंधिए गंधवट्टिभूप, तंसि तारिसगंलि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुआउद्दालसालिसए ओअविभखोमिअदुगुल्लपट्टपढिच्छन्ने दृशे - वक्तुमशक्यखरूपे पुण्यवतां योग्ये 'वासगृहे' शयनमन्दिरे, किंविशिष्टे', 'अभ्यन्तरतो' मध्यतः 'सचि त्रकर्मणि' विविधचित्रै रम्ये, बाह्यतो 'दूमिते' धवलिते, घृष्टे कोमलपाषाणादिना, अतो 'मृष्टे' सुकोमले, पुनः 'विचित्रो' विविधचित्रयुत 'उल्लोच' ऊर्ध्वभागो यत्र, तथा “चिल्लिअ" त्ति देदीप्यमानस्तलो - ऽअधोभागो यत्र, तस्मिन् । मणिरत्नप्रणाशितान्धकारे, 'बहु' अत्यन्तं समः सुविभक्तश्च खस्तिकादिविविधरचनामनोहरो भूमिभागो यत्र, तस्मिन् पञ्चवर्णसर ससुरभिमुक्तपुष्पपुञ्जोपचारकलिते, कृष्णागुरु प्रतीतं, प्रवरं 'कुन्दुरुक्कं' चीडाख्यं गन्धद्रव्यं 'तुरुष्कं' सिल्हकाभिधानं गन्धद्रव्यं, दह्यमानो धूपो-दशाङ्गाद्यनेकविधः, एतेषां सम्बन्धी 'मघमघायमानो ऽतिशयेन गन्धवान् 'उद्धृतः' प्रकटितो यो गन्धस्तेनाभिरामे 'सुगन्धवरगन्धिके' सुगन्ध्युत्तमचूर्णानां गन्धयुते 'गन्धवर्त्तिभूते' गन्धगुटिकाकल्पेऽतिसुगन्धे, एतादृशे वासभवने तस्मिंस्तादृशे - वक्तुमशक्यखरूपे शयनीये 'सालिङ्गनवर्त्तिके' शरीरप्राणदीर्घगण्डोपधानसहिते, उभयतः- शिरोऽन्तपादान्तयोः “बिबोअणे" त्ति उच्छीर्षकयुक्ते, अत एवोभयत उन्नते, मध्ये नते गम्भीरे च, गङ्गापुलिनवालुका पादविन्याससदृशे - यथा गङ्गापुलिनबालुकायां न्यस्तः पादोऽधो व्रजति, तथाऽतिकोमलत्वात्स शयनीयोऽपीति ज्ञेयं । “ओअविअ "त्ति उपचितं - परिकर्मितं यत्
For Private And Personal Use Only