________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीयं व्याख्यानम्
गई पट्टा, अप्पडिहयवरनाणदसणधराणं विअट्टछउमाणं ७, जिणाणं जावयाणं तिन्नाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं ८, सव
त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारो भारतक्षितेरन्तास्तेषु प्रभुतया भवाश्चातुरन्ता-श्चतुरन्तखामिना, ईदृशा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः, धर्मेषु वरा:-प्रधानाचातुरन्तचक्रवर्तिन इव धर्मवरचातुरन्तचक्रवर्तिनः, यथा हि चक्रवर्तिनः शेषराजातिशायिनो भवन्ति तथा भगवन्तोऽपि शेषधर्मप्रणेतृषु सातिशयाः कथ्यन्ते । “दीवो ताणं" इत्यादीनि प्रथमान्तान्यपि चतुयर्थ षष्ठ्यन्ततया योज्यानि, तत्र दीप इव दीपः, समस्तवस्तु प्रकाशकत्वात्, द्वीपो वा, भवाम्बुधौ दुःखकल्लोलाभिहतानामाश्वासहेतुत्वात्, 'त्राणं' अनर्थप्रतिघातहेतुः । 'शरणं' अर्थसम्पादनहेतुः गम्यते-सुस्थित्यर्थ दुःस्थितैराश्रियत इति गतिः। प्रतिष्ठा' भवकूपपतत्प्राणिगणस्याधारः। अप्रतिहते-कटादिभिरस्खलिते वरे-प्रधाने, क्षायिकत्वात् , ईदृशे ज्ञानदर्शने केवलाख्ये ये धरन्ति तेभ्यः। 'व्यावृत्तं गतं 'छद्म घातिकर्म संसारो वा येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः । 'जिनेभ्यो' रागद्वेषजेतृभ्यः।जापकेभ्योऽन्येषामुपदेशादिना । खयं संसारात्तीर्णेभ्योऽन्येषां च तारकेभ्यः। बुद्धेभ्यो-ज्ञाततत्त्वेभ्योऽन्येषां च बोधकेभ्यः। मुक्तेभ्यो भवचारकात्, सेवकानां मोचकेभ्यः। एतानि भवावस्थामाश्रित्योक्तानि विशेषणानि, अथ सिद्धावस्थामाश्रित्योच्यन्ते-'सर्वज्ञेभ्यो विशेषतः सर्वार्थावबोधवद्भ्यः 'सर्वदर्शिभ्य: सामान्यतः सर्वार्थाव
For Private And Personal Use Only