________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
*
*
*
से वि अणं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते रिउच्वेअ-जउष्वेअ-सामवेअ-अथवणवेअ, इतिहासपंच___ "मणैर्दशभिरेका च, धटिका कथिता बुधैः । धटीभिर्दशभिस्ताभि-रेको भारः प्रकीर्तितः॥२॥" __ तथा यः स्वाङ्गुलेनाष्टोत्तरशताङ्गुलोचः स प्रमाणप्राप्तः, सामान्योत्तमपुरुषप्रमाणमेतत्, तीर्थङ्कराणां तु| चूलारूपद्वादशाङ्गुलोष्णीषसद्भावाद्विंशत्यधिकशताङ्गुलोच्चत्वं भवति, कालचूलेत्यधिकमासाविवक्षकैन विवक्षितव्यमेतदपि। * ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि 'सुजातानि' सुनिष्पन्नानि सर्वाण्यङ्गानि यत्र, एवंविधं सुन्दरमहं यस्य स तथा, तं, शशिवत्सौम्याकारं 'कान्तं' कमनीयं प्रियदर्शनं सुरूपं देवकुमारोपमं 'दारक' पुत्रं प्रजनिष्यसि । |
१०-सोऽपि च दारक उन्मुक्तबालभावः-सञ्जाताष्टवर्षः सन् 'विज्ञातं' विज्ञानं परिणतमात्रं यस्य स तथा, कचित् "विण्णय"त्ति पाठस्तत्र विज्ञ एव विज्ञकः, स चासौ परिणतश्च-बुद्ध्यादिपरिणामवान् , यौवनमेव यौवनकस्तं यौवनकमनुप्राप्तः सन् "रिउक्वेअ" इत्यत्र लुप्तषष्ठ्यन्तत्वात् ऋग्वेद-यजुर्वेद-सामवेदा-थर्वणवेदानां इतिहासपश्चमानांx| | निघण्टुर्नामकोशः, स षष्ठो येषु ते तथा, तेषाम् निघण्टुषष्ठानां साङ्गोपाङ्गानां, अङ्गानि-शिक्षा-कल्प-व्याकरण-छन्दोज्योति-निरुक्तयः, उपाङ्गानि-तदुक्तार्थप्रपञ्चनपराः प्रबन्धाः, तैः सहितानां, 'सरहस्याना आनायसहितानां
x इतिहासः-पुराणं पश्चलक्षणो यथा-"सर्गश्च प्रतिसर्गश्च, वंशो मन्वन्तराणि च । वंशानुवंशचरितं, पुराणं पञ्चलक्षणम् ॥ १॥" स पञ्चमो येषु ते तथा, तेषाम् । “ब्रह्मा-म्भोरुह-विष्णु-(शम्भु)-वायु-भगवत्संज्ञं ततो नारदं,मार्कण्डेय-मथाग्नि दैवतमिति प्रोक्तं भविष्यं तथा।तस्माद्ब्रह्मविवर्तसंज्ञमुदितं लिंग वराहः स्मृतं, स्कन्द वामन-मत्स्य-कूर्म-गरुडं ब्रह्माण्डमष्टादशं ॥१॥" इत्यष्टादशपुराणनामानि ग्रन्थमानं च ॥
*
*
*
*
For Private And Personal Use Only