SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir दो वि पच्छाउत्ताई, एवं नो से कप्पंति दो वि पडिगाहित्तए । जे से तत्थ पुवागमणेणं पुचाउत्ते, से कप्पइ पडिगाहित्तए । जे से तत्थ पुच्चागमणेणं पच्छाउत्ते, नो से कप्पड पडिगाहित्तए ॥३५॥ वासावासं पजो० निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविठुस्स निगिज्झिय २ वुट्टिकाए निवइजा,कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा | उवागच्छित्तए, नो से कप्पर पुष्वगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय २ | पूर्वागमनेन यदि द्वावपि पूर्वायुक्तौ, तर्हि कल्पते तस्य द्वावपि प्रतिग्रहीतुं । अथ तत्र साधोः पूर्वागमनेन यदि द्वावपि पश्चादायुक्ती, एवं सति नो तस्य कल्पते द्वावपि प्रतिग्रहीतुं । इदमत्र तात्पर्य-यत्तस्य साधोस्तत्र पूर्वागमनेन पूर्वायुक्तं तत्तस्य कल्पते प्रतिग्रहीतुं, यत्तस्य तत्र पूर्वागमनेन पश्चादायुक्तं नो तत्तस्य कल्पते प्रतिग्रहीतुं, उद्गमादिदोषसम्भवात् । ३६-वर्षावासं पर्युषितस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टस्य-गतस्य 'निगृह्य २' स्थित्वा स्थित्वा यदि वृष्टिकायो निपतेत्तदा कल्पते तस्य आरामे वा उपाश्रये वा विकटगृहे वा वृक्षमूले वोपागन्तुम् । तत्रारामादौ स्थितस्य नो तस्य कल्पते पूर्वगृहीतेन भक्तपानेन वेलां अतिक्रमयितुं, किमुक्तं भवति?, वृष्टिकारणेनारामादौ स्थितः साधुर्यदि च वर्ष नैवोपरमति तदा कल्पते तस्य साधोः साध्व्या वा 'पूर्वमेव' सूर्यास्तमनादागेव 'विकटं' उद्गमादिदोषशुद्धं आहारादिकं भुक्त्वा | पीत्वा वा पतद्वहकं 'संलिख्य' प्रक्षाल्य 'सम्प्रमृज्य' लूषयित्वा एकत्र 'आयतं' सुबद्धं 'भाण्डकं' पात्राद्युपकरणजातं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे 'सावशेषे अनस्तमिते सूर्ये यत्रैवोपाश्रयः खस्य, तत्रैवोपागन्तुं, For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy