________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजवइरेगोयमसगुत्ते (१३)। थेरस्सणं अजवइरस्स गोयमसगुत्तस्स अंतेवासी थेरे अजवइरसेणे उक्कोसियगुत्ते (१४)। थेरस्सणं अज्जवइर| यश्चैकदा दुर्भिक्षे सङ्खपटे संस्थाप्य व्रजन पश्चादागतं 'लोचकरणेन साधर्मिकोऽहं भवता मिति वदन्तं दत्तनामानं शय्यातरमपि गृहीत्वा ससुभिक्षा महानसी(पुरिका)पुरी नीतवान् । तत्र पर्युषणायां बौद्धेन राज्ञा जिनचैत्येषु पुष्पदाने निषिद्धे श्राद्धैर्विज्ञप्तो भगवान् वज्रखामी नभोगामिविद्यया माहेश्वरीपुर्यां गत्वा हुताशनदेववने पितृमित्रमारामिकं तडितनामानं पुष्पप्रगुणीकरणायादिश्य स्वयं हिमवगिरौ श्रीदेवीभवने गतस्ततःश्रीदेव्यर्पित लक्षदलं महापमं हुताशनवनाच विंशतिपुष्पलक्षाणि लात्वा जृम्भकदेवविकुर्वितविमानस्थः समहोत्सवमागत्य | जिनशासनं प्रभावयन् राजानमपि श्रावकं चकार।
अन्यदा श्लेष्मणि सञ्जाते भोजनानन्तरभक्षणाय कर्णसंस्थापितशुण्ठ्या आवश्यककाले प्रपाते प्रमादेनासन्नं खावसानं विचिन्त्य द्वादशाब्दीयदुर्भिक्षप्रवेशे स्खशिष्यं श्रीवज्रसेनसूरिं
"लक्षमूल्यौदनाद्भिक्षां, यत्राहि त्वमाप्नुयाः । सुभिक्षमवबुद्ध्येथा-स्तदुत्तरे दिनोषसि ॥१॥” इत्युक्त्वाऽन्यत्र व्याहरयत् । खयं च समीपस्थैः श्रमणैस्सह रथावर्तगिरी गृहीतानशनो दिवं ययौ। तत्र च दशमं पूर्व संहननचतुष्कं तुर्य वार्धनाराचाख्यं संहननं च व्यवच्छिन्नं (१३)।
ततः स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य अन्तेवासी स्थविर आर्यवज्रसेन उत्कौशिकगोत्रोऽभूत् । स च गुर्वाज्ञया विहरन् सोपारके गतस्तत्र जिनदत्तश्रेष्ठिगृहे तद्भार्यया ईश्वर्या लक्षमूल्यमन्नं पक्त्वा क्षिप्यमाणं विषं
For Private And Personal Use Only