________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्या: व्या०६
सूत्रं १५२ वीरनिर्वाणपुस्तकवाचनान्तरकाल:
॥१२४॥
संवच्छरे काले गच्छइ, वायणंतरे पुण 'अयं तेणउए संवच्छरे काले गच्छद' इइ दीसइ ॥ १५२ ॥ _ वाचनान्तरे पुनरयं त्रिनवतितमः संवत्सरः कालो गच्छतीति दृश्यते, अत्रापि केचिद्वदन्ति-वाचनान्तरे' प्रत्यन्तरे "तेणउए"इति दृश्यते, तेन कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिके नववर्षशतेऽतिक्रान्ते इति कचित्पुस्तके लिखितं, तदेव पुस्तकान्तरे 'त्रिनवत्यधिके नववर्षशतेऽतिक्रान्ते' इति लिखितं दृश्यते। अन्ये वदन्ति-कल्पस्य पुस्तके लिखनरूपवाचनाया हेतुभूतोऽयमशीतितमः संवत्सरस्तदन्यस्य पर्षदि वाचनरूपवाचनान्तरस्य हेतुभूतोऽयं त्रिनवतितमः संवत्सरः। तथा च स्थितं-नवशताशीतितमे वर्षे पुस्तके लिखनं नवशतत्रिनवतितमे च वर्षे पर्षदि वाचनं कल्पस्य जातमिति, तत्त्वं पुनर्बहुश्रुता विदन्ति । इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावकश्रीखरतरगच्छगगनाङ्गणदिनकर-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य-श्रीमत्केशरमुनिजी-गणिवरसंगृहीतायां कल्पार्थबोधिनीनामपयुषणाकल्पव्याख्यायो
प्रमोरुपसर्गसहनादिवर्णनान्वितं ज्ञान-निर्वाणरूपपश्चम-षष्ठकल्याणकव्यावर्णनात्मकं षष्ठं व्याख्यानं समाप्तम् । तत्समाप्तौ च समाप्तमिदं "कल्लाणफला य जीवाणं" इत्याद्याप्तवाक्यात्सकलजगज्जीवकल्याणमङ्गलश्रेयःकरणप्रवण-गर्भाधान १ गर्भहरण ("गर्भस्य-श्रीवर्द्धमानरूपस्य हरणं-त्रिशलाकुक्षौ सङ्कामणे" इति कल्पदी. जयविजयः)२ जन्म ३
दीक्षा ४ ज्ञान ५ निर्वाण ६ रूपकल्याणकषटूनिबन्धबन्धुरं श्रीवीरचरित्रम् । अंक १२०-२-1 मूलं, ८५९-३-१ वृत्तिः, २७९-२-६ टि.नं. १, २०-३-६ टि० नं०२, सर्वाग्रेण १२८०-३-६, ब्या० पदस ४५०१-३-२॥
॥१२४॥
For Private And Personal Use Only