________________
Shri Mahavir Jain Aradhana Kendra
www.kobelirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवचनसारोद्धारवृत्तौ सिद्धसेनसूरयः "प्राप्ते पक्षान्ते विशेषप्रतिक्रमणेन प्रतिक्रामन्ति" इति पाक्षिकचूर्णौ । “दिवसनिशाऽवसानेषु प्रतिक्रमणं विदधाना अपि पक्ष-चतुर्मास-संवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति" इति, पुनः “प्रथम-चरमतीर्थकरतीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्त्तव्यमेव" इति, पुनरपि "प्रत्यहं उभयकालं, विशेषतस्तु पक्षान्तादिषु कुर्वन्ति" इति पाक्षिकसूत्रवृत्तौ । | आस्तामेते, स्वयं रत्नशेखरसूरिरपि श्राद्धविधिकौमुद्यां 'चतुर्दश्यामेवादितः पाक्षिक प्रतिक्रमण'मित्याग्रहं पुषन्नपि प्रतिक्रमणकालनिरूपणे "पाक्षिक-चातुर्मासिक-सांवत्सरिकाणि तु पक्षाद्यन्ते च स्युः" इत्यनेन वाक्येन पक्षान्त एव पाक्षिक प्रतिपादितवान् । पक्षान्तस्तु “पञ्चदश्यौ यज्ञकाली, पक्षान्ती पर्वणी अपि" इत्यभिधानचिन्तामण्यादिप्रामाण्यात्पञ्चदश्येव, न चतुर्दशी। ___ ननु चतुर्दश्यां पाक्षिकस्वीकारेऽन्यस्यां चतुर्दश्यां पक्षान्तो भवत्येवेति चेन्न, प्रानिर्दिष्टशब्दकोशप्रामाण्यात् “एगमेगस्स णं भंते ! पक्खस्स कति दीहा पण्णत्ता ?, गोयमा! पण्णरस, तं जहा-पडिवादिवसे बीयदिवसे जाव पण्णरसे दिवसे" इति सूर्यप्रज्ञप्याद्यागमप्रामाण्याच्चापि पञ्चदश्यामेव पक्षान्तस्य भवनात् । अन्यच्च-यद्येवं ? तर्हि यदृच्छया सर्वास्वपि तिथिषु पाक्षिककरणे को | निवारयिता', सर्वासामपि तिथीनां पक्षप्रमाणपश्चदशदिनानन्तरमेव भवनात् ।
किञ्च-यदि चतुर्दश्यामेवादितः पाक्षिकमासीत्तदाऽन्यूनाधिकानि चतुर्विंशतिश्चान्द्रे षड्विंशतिश्चाभिवर्द्धिते वर्षे सर्वाग्रेण पाक्षिकाण्यभूवन् प्रागिति निर्विवादं मन्तव्यमेव स्यात् , तथा च कथं त्रीण्यूनानि पाक्षिकाणि साम्प्रतं विधीयन्ते ?, अथ च-"यदा चतुर्मासके पूर्णिमायामभूत्तदा प्रतिक्रमणानि पञ्चविंशतिरष्टाविंशतिर्वा बभूवुः ?, तथा तानि शास्त्राक्षरबलेन विधीयमानानि परम्परातो वा?, शास्त्राक्षरबलेन चेत्तदा तदभिधानं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-वर्षमध्ये प्रतिक्रमणानि पञ्चविंशतिरष्टाविंशतिर्वेति
-01-O
For Private And Personal use only