________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणापश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वजाहत इव शून्यः क्षणं तस्थौ, यभाण चकल्पार्थ- "प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीधिकौशिका अद्य। दुर्भिक्षडमरवैरादि-निशाचरा भवन्ति सप्रसराः॥२॥” गौतमखाबोधिन्याः "राहुग्रस्तनिशाकर-मिव गगनं दीपहीनमिव सदनम् । भरतमिदं गतशोभं, त्वया विनाऽद्य प्रभो। जज्ञे ॥२॥" मिनः केवव्या०६ “कस्यांहिपीठे प्रणतः पदार्थान् , पुनः पुनः प्रश्नपदी करोमि।"
लावाप्तिः "कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ? ॥३॥"
प्रभुविरहे ॥११४॥ हा हा हा!!! वीर! किं कृतं ?, यदीदृशेऽवसरेऽहं दूरीकृतः, किं आडकं मण्डयित्वा बालवत्तवाचलेऽलगिष्यं?,*
तद्विलाकिमहं त्वयि कृत्रिमलेहोऽभवं?, किं मुक्ती साङ्कीर्ण्यकरोऽभविष्यं ?, किं वा तव भारोऽभवं?, यदेवं मां
पाश्च विमुच्य गतः, एवं च 'वीर ! वीर!' इति कुर्वतो 'वी वी' इत्येव गौतमस्य मुखे लग्नं, तथा च क्षणात्-हुं ज्ञातं, वीतरागा निःस्लेहा भवन्ति, ममैवार्य अपराधो यन्मया श्रुतोपयोगो न दत्तस्तदा, घिगिमं एकपाक्षिक ले अलमनेन, एकोऽस्मि, नाहं कस्यचित्, नास्ति मम कश्चन, एवं साम्यं भावयतस्तस्य केवलमुत्पेदे।।
कविराह-"मोक्षमार्गप्रपन्नानां, लेहो हि वज्रशृङ्खला। वीरे जीवति जातो न, गौतमो यत्तु केवली ॥१॥" चटित्वा जिनानभिवन्ध तत्रैव चम्पकतरुतले रात्रिमुषित्वा पश्चादागच्छता पञ्चदशशततापसाः प्रतिबोधिता दीक्षिताश्च । तानपि केवल- ॥११४॥ मुत्पत्रमिति ज्ञात्वाऽतीव विषीदन् 'गौतम!मा विषीद, यतोऽन्ते द्वावप्यावां तुल्यौ भविष्यावः' इत्युक्त्वाऽऽश्वासितो भगवता भणितं च'चेत्सद्यः केवलमीहसे, तर्हि मम रागं त्यजे'ति । गौतमेनोकं-'न मे तत्केवलेन किमपि पयोजनं, यत्कृते भवद्रागं त्यज्यते' इति ।
KO-KO-KO-KO-KO-KOXOXOXOXOX
For Private And Personal Use Only