SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इत्यादीनि तत्सत्ताव्यवस्थापकानीति तब सन्देहः, परमयुक्तः, यतएते त्वया मया च प्रत्यक्षं दृश्यन्ते देवाः, अन्यच्च “स एष यज्ञायुधी" इत्यादिना त्वदागमप्रमाणेनापि सन्त्येव देवाः । यच्च मायोपमत्वं “को जानाति" इत्यादिपदेऽभ्यधायि, तत्तेषामप्यनित्यत्वसूचक, न तु सर्वथाऽसद्भावसूचकमिति श्रुत्वाऽपगतसन्देहः सोऽपि सार्द्धत्रिशतैरछात्रैः सह प्रव्रजित इति सप्तमो गणधरः ॥ ७ ॥ “अथ नारकसन्देहात्, सन्दिग्धमकम्पितं विबुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ॥१॥" वेदपदानि-"न ह वै प्रेत्य नारकाः सन्ति" इत्यादीनि नारकाभावप्रतिपादकानि, तथा "नारको वै एष जायते, यः शूद्रान्नमश्नाति" इत्यादीनि नारकसत्ताप्रतिपादकानि, ततः किं तत्त्वमिति सन्देहस्तव, परं "न ह वै प्रेत्य नारकाः सन्ति" इत्यस्या यथार्थार्थोऽयं-यन्न खलु 'प्रेत्य' परलोके केचिन्नारका मेादिवत् शाश्वताः सन्ति, किन्तु य: कश्चिदिहोत्कृष्टं पापमर्जयति, स इतो गत्वा प्रेत्य-भवान्तरे नारको भवत्यतो न केनापि पापं समाचरणीयं, यद्वा नारका मृत्वाऽनन्तमेव नारकतया नोत्पद्यन्तेऽतोऽपि "प्रेत्य नारका न सन्ती"त्युच्यते, इति श्रुत्वा व्यपगतसन्देहः शतत्रयैश्छात्रैः सह प्रव्रजित इत्यष्टमो गणधरः ॥ ८॥ “अथ पुण्य सन्दिग्धं, द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ?॥१॥" त्वं तावदग्निभूतिसन्देहोक्तैः "पुरुष एवेदं ग्निं सर्व, यद्भूतं यच्च भाव्यं" इत्याद्यैर्वेदपदैः 'सर्व दृश्यमानमिदं जग-IN त्पुरुष एवेति मत्वा यत्पुण्यमुपलक्षणत्वात्पापं च निषेधयसि तदविचारितं, यतस्तानि वेदपदानि न हि पुण्य-| For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy