________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
*
*
*
*
मध्यमजिनसाधूनां ऋजुप्राज्ञत्वे दृष्टान्तमाह-केचिदजितजिनसाधवो नटनृत्यं निरीक्ष्य चिरेणागता गुरुभिः |पृष्टा यथास्थितमकथयन्, निषिद्धाश्च गुरुभिः। पुनरन्यदा त एव साधवो बहिर्गता नटीनृत्यं दृष्ट्वा प्राज्ञत्वाचिन्तितवन्तः, यन्नटनृत्यवन्नटीनृत्यमपि नैव वीक्ष्यं, विशेषतो रागहेतुत्वादिति।
ननु भवतु धर्मो मध्यमजिनयतीनां ऋजुप्राज्ञानां, परमादिमजिनयतीनां ऋजुजडानां कथं धर्मः?, अनवबोधत्वात्, तथा च वक्रजडानां वीरजिनयतीनां तु सर्वथैवाभावो धर्मस्येति चेन्मैवं, ऋजुजडानामादिमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भवत्येव धर्मः, भावविशुद्धित्वात् । तथा वक्रजडानामपि चरमजिनयतीनां यद्यपि ऋजुप्राज्ञापेक्षयाऽविशुद्धो भवति, परं सर्वथैव न भवतीति न वाच्यं, तथा भणने हि महान् दोषः, तदुक्तं-"x जो भणइ नत्थि धम्मो, न य सामाइयं न चेव य वयाई । सो समणसंघवज्झो, कायबो समणसंघेण॥१॥"* __ यश्च चन्द्रवर्षे जघन्यः सप्ततिदिनमानोऽभिवर्द्धिते च शतदिनमानो नियतावस्थानलक्षणो गृहिज्ञातपर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु तन्मध्येऽपि विहां कल्पते, तद्यथा
"अशिवे भोजनाप्राप्तौ, राजरोगपराभवे । कृतपर्युषणानां हि, विहां कल्पतेऽन्यतः॥१॥" "असति स्थण्डिले जीवा-कुले च वसती तथा । कुन्थुष्वग्नी तथा सर्प, विहां कल्पतेऽन्यतः॥२॥"
तथा एभिर्वक्ष्यमाणैः कारणैर्व्यतीतेऽपि चतुर्मासके तत्रैव स्थातुं कल्पतेx यो भणति नास्ति धर्मो, न च सामायिकं न चैव ब्रतानि । स श्रमणसंघबाह्यः, कर्त्तव्यः श्रमणसंघेन ॥ १॥ * इति तीर्थोद्गारिके गाथाङ्कः ८६९ ।
*
KXOXOXOXOXOXOXOXOXOXOXOM
*
*
*
पर्यु.क.२
*
*00
For Private And Personal Use Only