________________
Shri Mahavir Jain Aradhana Kendra
www.kobelirth.org
Acharya Shri Kailassagarsuti Gyanmandi
श्राविका मृगावतीराश्याः सखी । तत्र पौषकृष्णप्रतिपदि स्वामिना द्रव्यादिचतुर्विधोऽभिग्रहो गृहीतस्तद्यथा-18 द्रव्यतः कुल्माषान्सूर्पकोणस्थान, क्षेत्रतो दातुरेकः पादो देहल्या अन्तरेकश्च बहिर्भवेत्, कालतो निवृत्ते भिक्षासमये, भावतो राजसुता दासत्वमापन्ना निगडिता मुण्डितशीर्षा रुदत्यष्टमभक्तिका च चेद्दास्यति तदा ग्रहीष्यामीति परीषहसहनायाभिगृह्य प्रत्यहं भिक्षायै पर्यटति।अमात्यादयोऽनेकानुपायान् कुर्वन्ति, परं न पूर्यतेऽभिग्रहः । इतश्च तदैव शतानीकेन चम्पा भग्ना । तत्र च दधिवाहनभूपभार्या धारिणी तत्सुता वसुमती च, द्वे अपि केनचित्सुभटेन गृहीते । तत्र धारिणी 'त्वां भार्यां करिष्यामीति सुभटवार्तया जिहां चर्वित्वा मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यामानीय चतुष्पथे विक्रेतुं स्थापिता, धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया सञ्जाता । अन्यदा खपादौ प्रक्षालयन्त्यास्तस्या भूलुठद्वेणी
निस्थापितातीवाप्रवासात श्रेष्ठिना स्वयं गृहीतेत्यालोक्य मूलानाम्नी श्रेष्ठिभार्या 'गृहस्वामिनी तु इयमेव युवतिर्भाविनी, यतोऽहं निर्मा
नम ल्यप्राया' इति विषण्णचित्ता तां शिरोमुण्डन-निगडक्षेपणपूर्व यत्रे निरुद्ध्य कापि गता, चतुर्थे दिने कथमपि प्राप्ततच्छुद्धिः श्रेष्ठी यन्त्रमुद्घाट्य तदवस्थां तां देहल्यां संस्थाप्य सूर्पकोणस्थान कुल्माषान् दत्त्वा निगडभञ्जनार्थ लोहकाराऽऽकारणाय यावद्गतस्तावत् 'यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्त्वा भुञ्जे' इति चिन्तयन्त्यां तस्यां प्रभुस्समागतः। साऽपि प्रमुदिता 'गृहाणेदं प्रभो !' इति जगौ । ततः खामी खाभिग्रहे रोदनं न्यूनमालोक्य निवृत्तः। ततो वसुमती 'अहो !! अस्मिन्नवसरे भगवानागत्य किञ्चिदप्यगृहीत्वा निवृत्त' इति
For Private And Personal Use Only