________________
Shri Mahavir Jain Aradhana Kendra
www.kobelirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आधजिनतीर्थजीवा ऋजुजडास्तेषां धर्मस्य बोधो दुर्लभः, जडत्वात् । वीरजिनतीर्थसाधूनां पालनं दुष्कर, वक्रजडत्वात् । मध्यमजिनसाधूनांतु एतद्वयमपि सुकर, ऋजुप्राज्ञत्वात्। अत्रार्थे नटादयो दृष्टान्ता ज्ञातव्यास्तथाहि केचन प्रथमजिनमुनयो बहिर्भूमेश्चिरेणागता गुरुभिः पृष्टाः-'भो मुनयः! भवद्भिरियती वेलाककृता? तैरुक्तं-'खामिन् ! नटं नृत्यन्तं विलोकयितुं स्थिताः'। गुरुभिरुक्तं-'न कल्पते नटनृत्यविलोकनं साधूनां'। स्वीकृतं तैरपि । पुनः कदाचित्त एव साधवश्चिरेणोपाश्रयं समागतास्तथैव गुरुभिः पृष्टाःप्रोचुः-'प्रभो! अद्य |नटी नृत्यन्तीमवलोकमानाः स्थिताः। गुरुभिरूचे-'भो महाभागाः! तदानीं भवतां नटो निषिद्धस्ततो नटी
तु सुतरां निषिद्धव' । तैर्विज्ञप्त-स्वामिन् ! नास्माभिरिदं ज्ञातं, अथैवं न करिष्यामः' । अत्र जडत्वान्नटे निषिद्धे |नटी निषिद्वैवेति तैर्न ज्ञातं, ऋजुत्वाच सरलमुत्तरं ददाविति प्रथमः। | कश्चित्कुणदेशीयो वृद्धः प्रव्रजिता, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो, गुरुभिः पृष्टः-'किं चिन्तितमियदीर्घ कायोत्सर्गे? । तेनोक्तं-'जीवदया। पुनः कथमिति गुरुभिः पृष्टः प्राह-'भगवन् ! पूर्व गृहस्थावस्थायां मया वृक्षनिषूदनादिपूर्वकमुप्तानि धान्यानि बहून्यभूवन् , इदानीं तु मत्पुत्रा निश्चिता यदि वृक्षनिपू-10 दनादिर्न कुर्युस्तदा ते वराकाः कथं भविष्यन्ति?' इति ऋजुत्वादुक्तं यथास्थितं स्वाभिप्रायं, ततो गुरुभिः|'महाभाग ! दुतिं भवता, अयुक्तमेतद्यतीनां' इत्युक्ते दत्तं तदैव "मिथ्यादुष्कृतं" तेनेति द्वितीयः।
For Private And Personal Use Only