________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsur Gyanmandir
समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेलए पाणिपडिग्गहिए ॥ ११९ ॥ x"अद्धतेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा, जहन्निया होइ वसुहारा ॥१॥”
ततो विहृत्य भगवान् 'मोराक' सन्निवेशे 'दुइजंत'तापसाश्रमं गतः, तत्र 'सिद्धार्थनृपसखा कुलपतिः प्रभुं उप|स्थितः,प्रभुणाऽपि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्याभ्यर्थनया चैकां रात्रिं तत्रोषित्वा नीरागचित्तोऽपि तस्यानुरोधाच्चतुर्मासावस्थानं तत्राङ्गीकृत्यान्यतो विजहार,शेषकालेऽन्यत्र विहृत्य पुनर्वर्षावासार्थमागतस्तत्र कुलपतिसमर्पिते तृणोटजे तस्थौ । तदा च बहिस्तृणानाप्या क्षुधिता गावोऽन्यैस्तापसैः खखोटजान्निर्वासिताः सत्यः प्रभुभूषितमुटजं निश्शङ्कं खादन्ति । तत उटजवामिना कुलपतये पूत्कृतं । कुलपतिनाऽप्यागत्य प्रभुं प्रत्युक्तंभो बर्द्धमान ! पक्षिणोऽपि खनीडरक्षणे दक्षा भवन्ति, त्वं तावदाजपुत्रोऽपि खाश्रयं रक्षितुमशक्तोऽसि । ततो भगवान् मयि सत्येतेषां अनीतिस्ततो नात्र स्थातुमुचित मिति विचिन्त्याषाढपूर्णिमातः पक्षेऽतिक्रान्ते वर्षायामेव
“नाप्रीतिमद्गृहे वासः, स्थेयं प्रतिमया सदा । न गेहिविनयः कार्यो, मौनं पाणौ च भोजनम् ॥१॥" इत्यभिग्रहपञ्चकमभिगृह्य 'अस्थिक ग्राम प्रति प्रस्थितः ।
११९-श्रमणो भगवान महावीरः साधिकमासं संवत्सरं यावत् 'चीवरधारी' वस्त्रधारी अभवत्, 'तेन परं' साधिकमासाद्वर्षादूर्ध्व'अचेलकः' वस्त्ररहितः 'पाणिपतद्ग्रहिकः' करपात्रश्चाभवत्। तत्र अचेलकभवनं चैवम्
x अर्धत्रयोदशकोव्य, उत्कर्षा तत्र भवति वसुधारा। अर्धत्रयोदशलक्षा, जघन्यिका भवति वसुधारा ॥१॥
पर्यु.क.१६
For Private And Personal Use Only