________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
तद्विधिश्चायं-प्रागुक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिकदण्डकमुच्चरितुं समुद्यतस्तदा शक्रः स्वर्णकम्बां भ्रमयित्वा समस्तमपि वादित्रादिकोलाहलं निवारयति । ततो भगवान् "नमो सिद्धाणं" इति भणनपूर्वकं "करेमि सामाइअं सवं सावजं जोगं पञ्चवक्खामि" इत्यादिकं सामायिकदण्डकमुच्चरति, न तु "भंते" इति भणति, तथा कल्पत्वात् । एवं च व्रतग्रहणानन्तरमेव भगवतश्चतुर्थं मनः पर्यवज्ञानमुत्पन्नं । ततः शक्रादयो देवाः प्रभुं वन्दित्वा नन्दीश्वरे कल्याणकोत्सवं च विधाय खं खं स्थानं जग्मुः ।
इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावक - श्रीखरतरगच्छ वियद्भास्कर-क्रियोद्धारक - श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य - श्रीमत्केशरमुनिजी-गणिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पव्याख्यायां प्रभोदक्षाकल्याणकव्यावर्णनबन्धुरं पञ्चमं व्याख्यानं समाप्तम् ।
अं० ११७-१-३ मूलं, ४२७-२-५ वृत्तिः ९-२-६ टि०, सर्वामेण ५५५-२-६ । व्याख्यानपञ्चकस्य ३२२०-३-४ ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir