________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूत्रं ११६ दीक्षोद्यतं वीरं प्रति कुलमहत्तरादीनां शिक्षावचांसि
पर्युषणा० "जय जय नंदा!, जय जय भद्दा!, भई ते खत्तियवरवसहा!, अभग्गेहिं नाणदसणचरित्तेहिं अजियाई जिणाहि इंदियाई, जिअं कल्पार्थ- |च पालेहि समणधम्म, जियविग्घोवि य वसाहितं देव ! सिद्धिमज्झे, निहणाहि रागहोसमल्ले तवेणं, घिइधणिअबद्धकच्छे मद्दाहि अट्टबोधिन्याः कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुक्करंगमज्झे, पाव य वितिमिरमणुत्तरं केवलवरनाणं, व्या० ५ | गच्छ य मुक्खं परं पयं जिणवरोवइटेणं मग्गेणं अकुडिलेणं, हंता परीसहचमूं। जय जय खत्तिअवरवसहा! बहूई दिवसाई बहूई पक्खाई ॥८६॥
११६-हे नन्द!-हे समृद्धिमन् ! त्वं जय जय, हे भद्र त्वं जय जय, भद्रं तेऽस्तु हे क्षत्रियवरवृषभ!,'अभग्नैः निरतिचारैनिदर्शनचारित्रैः अजितानि इन्द्रियाणि 'जय' वशीकुरु, 'जितं' स्वायत्तीकृतं च पालय श्रमणधर्म, जितविनोऽपि च हे देव ! त्वं वस सिद्धिमध्ये, सिद्धिशब्देनात्र श्रमणधर्मस्य वशीकारस्तस्य मध्यं-सेवनप्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः। अत एव रागद्वेषमल्लौ 'निजहि' निगृहाण, केन?, तपसा बाह्याभ्यन्तरेण, तथा 'धृतौ सन्तोषे धैर्ये वा, "धणि"त्ति अत्यर्थ बद्धकक्षः सन् मर्दयाष्टकर्मशत्रून् , केन ?, ध्यानेनोत्तमेन शुक्लेन, अप्रमत्तस्सन् 'आहर' गृहाण आराधनपताकां हे वीर ! त्रैलोक्यरङ्गमध्ये, यथा मल्लः प्रतिमल्लं विजित्य जय
पताकां गृह्णाति तथा त्वमपि कर्मशत्रून्निर्जित्याराधनपताकां गृहाणेति भावः। प्राप्नुहि च 'वितिमिरं अज्ञानाअन्धकाररहितं 'अनुत्तरं' अनुपमं केवलवरज्ञानं, गच्छ च मोक्षाख्यं परं पदं जिनवरोपदिष्टेन मार्गेण 'अकुटि
लेन' विषयकषायादिकौटिल्यरहितेन, हत्वा परीषहचमूं। जय जय क्षत्रियवरवृषभ ! बहून् दिवसान् बहून् पक्षान् बहून् मासान् बहन ऋतून द्विमासात्मिकान , बहूनि अयनानि-दक्षिणोत्तरायणरूपाणि पाण्मासिकानि,
XXXXXXXXXXXX
| ॥८६॥
For Private And Personal Use Only