SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ५ ॥ ८२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जहा सेसवई इ वा जसवई इ वा ॥ १११ ॥ समणे भगवं महावीरे दक्खे दक्खपइने पडिरूवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे, विदेहे विदेहदिने विदेहजऽच्चे विदेहसूमाले, तीसं वासाई विदेहंसि कट्टु अम्मापिऊहिं देवत्तगपहिं गुरुमहत्तरपहिं अम्भणुन्नार समत्तपइने । पुणरवि लोगंतिपहिं ११२ - श्रमणो भगवान् महावीरो 'दक्षः' सकलकलाकुशलः, दक्षप्रतिज्ञः - समीचीनामेव प्रतिज्ञां करोति, तां च सम्यनिर्वहति 'प्रतिरूपः' सुन्दररूपवान् 'आलीनः' सर्वगुणैराश्लिष्टः 'भद्रकः' सरलो विनीतो 'ज्ञातः' प्रसिद्धः 'ज्ञातपुत्रः' सिद्धार्थराजसूनुः, नैतावन्मात्रमेव, किन्तु ज्ञातकुले चन्द्र इव । पुनः 'विदेहः' विशिष्टदेहवान्, आद्यसंहनन-संस्थानोपेतत्वात्, विदेहदिन्ना - त्रिशला, तस्या अपत्यं - वैदेहदिन्नः, विदेहा-त्रिशला, तस्यां जाता अर्चा- शरीरं यस्य स विदेजार्च: । 'विदेहो' गृहवासस्तत्रैव सुकुमारः, न पुनर्व्रते, कालचक्राद्युपसर्गसहने वज्रकर्कशत्वात् । ईदृशो भगवान् त्रिंशद्वर्षाणि 'विदेहे' गृहवासे 'कृत्वा' स्थित्वा मातापित्रोर्देवत्वं गतयोः 'गुरुणा' ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन 'महत्तरकैः' राज्यप्रधानैश्वापि अभ्यनुज्ञातः समाप्तप्रतिज्ञश्च, 'मातापित्रोर्जीवतो नाहं प्रव्रजिष्यामी' ति गर्भस्थगृहीतायाः प्रतिज्ञायाः पूरणात्, स वृत्तान्तस्त्वेवम् - जन्मतोऽष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्ये माहेन्द्रे कल्पे आचाराङ्गाभिप्रायेण चानशनेनाच्युते कल्पे गतौ । ततो भगवता ज्येष्ठ भ्राता नन्दिवर्द्धनो राजा पृष्टः- राजन् ! पूर्णो ममाभिग्रहोऽतः प्रव्रजामि । ततो नन्दिवर्द्धनो| वोचत् भ्रातः ! मातापितृविरहदुःखितस्य ममानया वार्त्तया किं क्षतेः क्षारं क्षिपसि ? । भगवतोक्तं- 'राजन् ! For Private And Personal Use Only सूत्रं ११२ श्रीवीरस्य दीक्षार्थमु लोकान्ति कागमर्न च ॥ ८२ ॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy