________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं जया णं अम्हं एस दारए जाए भविस्सइ, तया णं अम्हे पयस्स दारगस्स इमं पयाणुरुवं गुण्णं गुणनिप्फन्नं नामधिजं करिस्सामो 'वद्धमाणु' त्ति । ता अज अम्ह मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे 'वद्धमाणे नामेणं ॥१०९॥ समणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामधिजा एवमाहिजंति, तं जहा-अम्मापिउसंतिए 'वद्धमाणे १, सहसमुहआए 'समणे २, अयले भयभेरवाणं, | परीसहोवसग्गाणं खंतिखमे, पडिमाण पालगे धीमं अरहरइसहे दविए वीरिअसंपन्ने, देवेहिं से नाम कयं 'समणे भगवं महावीरे' ३ ॥११०॥ | १०९-तस्माद्यदाऽस्माकमेष दारको जातो भविष्यति, तदा वयमेतस्य दारकस्येमं एतद्रूपं 'गौण्यं गुणेभ्य - आगतं गुणनिष्पन्नं 'नामधेयं' अभिधानं करिष्यामो 'वर्द्धमान' इति । सा अद्य अस्माकं मनोरथसम्पत्तिर्जाता, तस्माद्भवतु अस्माकं कुमारो 'वर्द्धमान' इति नाम्ना। .११०-श्रमणो भगवान महावीरः काश्यपगोत्रः, तस्य त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा-'माता|पितृसत्कं' मातापितृभ्यां दत्तं 'वर्द्धमान' इति प्रथमं नाम, तथा "सह"त्ति जन्मतो सहभाविनी या 'समुदिता' *रागद्वेषाभावता, तया 'श्रमणः' तपोनिधि इति द्वितीयं नाम, तथा 'अचलो' निष्पकम्पो भयभैरवयोर्विषये, तत्र
भयं-अकस्माद्विादादिजातं भैरवं-सिंहादिजं भयमेव । परीषहाःक्षुत्पिपासादयो द्वाविंशतिः, उपसर्गाः देवमनुजादिकृताः, तेषां क्षान्त्या, न त्वसमर्थत्वेन, 'क्षमः' सहेता, प्रतिमानां भद्रादीनामेकरात्रिक्यादीनां तत्तद्भिग्रहविशेषाणां वा पालका, धीमान् ज्ञानत्रयोपेतत्वात्, अरतिरत्योः 'सह' सहेता, न तु तत्र हर्षेविषादी कुरुत इत्यर्थः, तथा 'द्रविकः' इष्टानिष्टेष्वर्थेषु रागद्वेषरहितः*, 'वीर्य' पराक्रमस्तेन सम्पन्नः, अतो देवैस्तस्य
"दवितो नाम न रागं गच्छति" इल्याचारागचूर्णी "रागद्वेषविरहाइविको भगवान्" इति च तवृत्तौ ।
*6**6*6*6XOXOXXX-0*6Xo)
For Private And Personal Use Only