________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
हृदयं" इति । पञ्चमासप्रमाणवर्षाकालापेक्षिकोऽप्यभविष्यदुपरोक्तपाठश्वेत्तदा "चतुर्मासप्रमाणस्य वर्षाकालस्य"
इति नाकथयिष्यन् वृत्तिकाराः श्रीमदभयदेवसूरिपूज्याः, इति सुविमृश्यं । नायुक्तं पञ्चमासप्रमाणे चातुर्मासिके A"पंचण्हं मासाणं" इत्यादेस्त्रयोदशमासात्मके सांवत्सरिके च "सेरसण्हं मासाणं" इत्यादेर्जल्पनं, यतः "तेरस य *
चंदमासा, एसो अभिवडिओ य नायबो" (वृत्तिः)-"त्रयोदश चन्द्रमासा पसिन् संवत्सरे भवन्ति स एष संवत्सरोऽभिवद्धित इत्युच्यते" इति ज्योतिष्करण्डकप्रकीर्णकवृश्योः १५ पत्रे । तथा “गोयमा ! अभिवडियसंवम्छरस्स छब्बीसाइं पधाई-अभिवर्द्धितसंवत्सरस्य पडूविंशतिपर्वाणि, तस्य त्रयोदशमासात्मकत्वात्" इति सूर्यप्रज्ञप्तिसूत्रवृत्त्योः१५५ पत्रे उक्तत्वात्सर्वदापि "चउण्हं-चारसण्डं वा मासाणं" इत्याचेष अस्पितव्यमिति नियामकशास्त्रप्रमाणाभावाच । न काप्युपलभ्यते यत्सवेष्वपि वर्षेषु "चउण्हं-बारसहं वा मासाणं" इत्यायेष जल्पितव्यमिति शास्त्राज्ञा, किन्तु "एगस्स पक्खस्स, पारसहं दिवसाण" इत्याद्यावश्यकबृहद्वृत्त्युक्त्या यथायोग्या योजना क्रियते । अन्यच्च-पञ्चभिर्मासैदशभिः प:श्चातुर्मासिकं त्रयोदशमासैः षड्विंशतिपक्षश्च सांवत्सरिकं कुर्वन्नपि स्वमुखेन च प्रतिपाक्षिकं त्रित्रिवारं "एगस्स पक्खस्स, पबरसण्हं दिवसाणं" इत्यादिकं सत्यं भणित्वाऽपि चातुर्मासिके सांवत्सरिके च पुनः "चउण्हं-चारसण्हं वा मासाणं" इत्याद्यसत्यं जल्पन् कश्चिद्वाचाटः शास्त्राणां स्वाचारस्यापि च विराधकः। न च भाद्रपदमासप्रतिबद्धैव पर्युषणा, यतबेदेवं स्यात्तर्हि शास्त्रकाराणां "सवीसइराए मासे विइकंते वासावासं पजोसवेमो, अंतरावि य से कप्पई" इत्यादिसर्वमालजालं व्युत्सृज्य “सबेसु वि वरिसेसु भद्दवयसुद्धपंचमीए चेव संवच्छरियं पडिक्कमियो" इत्येव
For Private And Personal Use Only