________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमं व्याख्यानम्
जं रयणि च णं समणे भगवं महावीरे जाए, साणं रयणी बहूहिं देवेहिं देवेहि य ओवयंतेहिं उप्पयंतेहि य उपिजलमाणभूआ कहकहगभूआ आवि हुत्था ॥९९॥
९९-यस्यां रजन्यां श्रमणो भगवान् महावीरो जातः, सा रजनी बहुभिर्देवैः शक्रादिभिर्बहीभिर्देवीभिश्च दिक्कुमार्यादिभिः 'अवपतभिः ' जन्मोत्सवार्थ खर्गाद्भुवमवतरद्भिः 'उत्पतद्भिः मेरुशिखरादौ गमनायोर्द्ध गच्छद्भिः भूतशब्दस्योपमानार्थत्वाद् 'उत्पिञ्जलन्तीव' भृशमाकुला इव 'कहकहकभूतेव' हर्षाहहासादिनाऽव्यक्तवर्णकोलाहलमयीवाभवत् । अनेन च सूत्रेण दिकुमार्यादिदेवकृतः सविस्तरो जन्मोत्सवः सूचितः, स चैवम्
"उड्योतस्त्रिजगत्यासीद्, दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छ्वासमासदत्॥१॥" तत्राहतां जन्मोत्सवे पूर्व षट्पश्चाशद्दिकुमार्यः समागत्य शाश्वतिकं वाचारं कुर्वन्ति, तद्यथा"अधोलोककृतावासा-स्ततोऽष्टौ दिक्कमारिकाः। समीयुस्त्रिशलादेव्याः, संमदाः सूतिमन्दिरम् ॥२॥" "भोगङ्करा भोगवंती, सुभोगा भोगालिनी । सुवौ वत्समित्रा च, पुष्पमाला त्वनिन्दितां ॥३॥" "नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः। संवर्तेनाशोधयन्क्ष्मा-मायोजनमितो गृहात् ॥४॥" "मेघङ्करा मेघवती, सुमेघामेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बलाकिका ॥५॥” "तीर्थकृत् तीर्थकृन्मानो-स्तास्तथैव नतिस्तुती । कृत्वा विचक्रिरे मेघान , पुण्याराममदप्रदान ॥६॥"
1मर्च
वासिन्य:
For Private And Personal Use Only