________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः व्या० ४
॥ ५९ ॥
xaxax
01-01-01-6
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं एएसिं चउद्दण्डं महासुमिणाणं देवाणुप्पिया! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ७३ ॥ तपणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एअमङ्कं सोचा निसम्म हट्टतुट्ट जाव हयहियया ते सुमिणे ओगिण्हंति । ओगिण्हित्ता ईहं अणुपविसंति । अणुपविसित्ता अन्नमन्त्रेणं सद्धिं संचालेंति । संचालित्ता तेसिं सुमिणाणं लट्ठा गहिअट्ठा पुच्छिअट्ठा | विणिच्छियट्टा अभिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी ॥ ७४ ॥
७३- तदेतेषां चतुर्दशानां महाखनानां देवानुप्रियाः। उदाराणां कः कल्याणः फलवृत्तिविशेषो भविष्यतीति मन्ये । ७४- ततस्ते स्वप्नलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्यान्तिके एनमर्थं श्रुत्वा निशम्य हृष्टास्तुष्टाः, यावन्मेघधाराहतकदम्बपुष्पवद्विकसितहृदयास्तान् खमान् 'अवगृह्णन्ति' अवधारयन्ति । अवगृह्य 'ईहां' अर्थविचारणां अनुप्रविशन्ति । अनुप्रविश्य अन्योऽन्येन सार्द्धं 'सञ्चालयन्ति' पर्यालोचयन्ति । सञ्चाल्य तेषां स्वप्नानां लब्धार्थाः खबुद्धितः, गृहीतार्थाः पराभिप्रायग्रहणतः, पृष्टार्थाः संशये सति परस्परतः, अत एव विनिश्चितार्थाः, अभिगतार्था: - ज्ञात निश्चितार्थाः सन्तः सिद्धार्थस्य राज्ञः पुरतः खमशास्त्राणि उच्चारयन्तः २ सिद्धार्थं क्षत्रियमेवमवादिषुः - अनु० - "अनुभूतः श्रुतो दृष्टः, प्रकृतेश्च विकारंजः । स्वभावतः समुद्भूत- श्चिन्तासन्ततिसम्भवः ॥ १ ॥” “देवताद्युपदेशात्थो, धर्मकर्मप्रभावजः । पापोद्रेकसमुत्थञ्च, स्वप्नः स्यान्नवधा नृणाम् ॥ २ ॥” युग्मम् । “प्रकारैरादिमैः षड्भि-रशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ॥ ३ ॥” "राश्चतुर्षु यामेषु, दृष्टः खमः फलप्रदः । मासैर्द्वादशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥ ४ ॥”
For Private And Personal Use Only
सूत्रे ७३-७४ सिद्धार्थेन
स्वमकथनं स्वप्नपाठकेभ्यस्तैश्च
स्वप्नशास्त्र
कथनम्
॥ ५९ ॥