________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्पिए!, पुत्तलाभो देवाणुप्पिए!, सुक्खलामो देवाणुप्पिए!, रजलाभो देवाणुप्पिए!, एवं खलु तुमे देवाणुप्पिए! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइकताणं, अम्ह कुलकेउं, अम्हं कुलदीवं, कुलपच्वयं, कुलवर्डिसय, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाधारं, कुलनंदिकर, कुलजसकर, कुलपायवं, कुलविवद्धणकर, सुकुमालपाणिपाय, अहीणसंपुण्णपंचिंदियसरीरं, लक्षणवंजण-गुणोववेयं, माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंग, ससिसोमाकारं, कंतं, पियदसणं, सुरूवं दारयं पयाहिसि ॥ ५३॥ मात्य-सुह-कोश-राष्ट्र-दुर्ग-सैन्यरूपसप्ताङ्गिकस्य लाभो देवानुप्रिये !, भविष्यतीति शेषः। एवं खलु त्वं देवानुप्रिये!, सप्तम्यर्थे षष्टीत्वात् नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु सत्सु, अस्माकं 'कुलकेतुं' कुलशोभार्थं ध्वजतुल्यं, अस्माकं कुलस्य प्रकाशकत्वात्कुलदीपं 'कुलपर्वत' पर्वतेवापराभवनीयं स्थिरं च 'कुलावतंसकं' कुले मुकुट इव, शोभाकरत्वात् 'कुल तिलकं' कुलेऽत्युत्तमत्वेन शिरोधार्यत्वात्तिलकतुल्यं, कुलकीर्तिकरं-शुभाचारित्वात् 'कुलवृत्तिकरं' कुलनिर्वाहकं 'कुलदिनकर कुलस्य सूर्यवत्प्रकाशकं 'कुलाधार' पृथ्वीव कुलस्याधारं, कुलस्य 'नन्दिः' वृद्धिस्तस्याः करं, कुलस्य 'यशः' सर्वदिग्व्यापिनी ख्यातिस्तस्याः करं, कुले सर्वजनाश्रयणीयत्वात्पादप इव पादपस्तं, कुलस्य 'विवर्द्धनं सर्वतो वृद्धिस्तस्याः करं, सुकुमालपाणिपादं, अहीनानि-लक्षणोपेतानि खरूपेणापि सम्पूर्णानि पञ्चेन्द्रियाणि यत्र, एवंविधं शरीरं यस्य, तं । लक्षणैर्व्यञ्जनैगुणैश्चो पपेतं' युक्तं । मानो-मान-प्रमाणैः प्रतिपूर्ण 'सुजातं' सुनिष्पन्नं सर्वाङ्गसुन्दरं अङ्गं यस्य, तं । तथा शशिवत्सौम्याकारं, कान्तं, प्रियदर्शनं, मुरूपं दारकं प्रजनिष्यसि ।
BXOXOXOXOXOXOXOXOXOXOXOXO
For Private And Personal Use Only