________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
SIXIXEXOXOXOXOXOXOXOXOXOX
जलंत मिव कमल-कुवलय-उप्पल-तामरस-पुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं, पमुइयंतभमरगण-मत्तमहुयरिगणुक्करोलिजमाणकमलं, कायंबग-बलाय-चक-कलहंस-सारसगविअसउणगणमिहुणसेविजमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं, पिच्छद सा, हियय-नयणकंतं पउमसरं नाम सरं सररुहाभिरामं १०॥४३॥ "पहकर"त्ति देश्यत्वात् समूहस्तेन "परिहत्थग"त्ति परिपूर्ण-सर्वतो व्यासं, तथा मत्स्यैः परिभुज्यमानो जलसञ्चयो यस्य, तं । 'महान्तं' महत्प्रमाणं । पुनः कमलानि-सूर्यविकाशीनि, कुवलयानि चन्द्रविकाशीन्यम्बुजानि, उत्पलानि-रक्तकमलानि, तामरसानि-महाम्भोजानि, पुण्डरीकाणि-श्वेताम्बुजानि, इत्यादिनानाविधकमलानां 'उरुः' विस्तीर्णः 'सर्पन्' प्रसरन् यः श्रीसमुदयः' शोभासमूहस्तेन 'ज्वलदिव' देदीप्यमानमिव रमणीया रूपशोभा यस्य तत्तथा,तं। 'प्रमुदितान्तराणां' प्रसन्नान्तःकरणानां भ्रमरगणानां मत्तमधुकरीगणानांचये 'उत्कराः' समूहास्तरवलिह्यमानानि' आखाद्यमानानि कमलानि यत्र, तं । तथा कादम्बका:-पक्षिविशेषाः, बलाहकाः| "कजाँ" इत्याख्यया मरुधरादौ प्रसिद्धाः पक्षिणः, 'चक्रा' चक्रवाकाः 'कलहंसा: राजहंसाः 'सारसा' दीर्घजानुपक्षिणः, इत्यादयस्ताहकस्थानावाप्त्या गर्विताये 'शकुनिगणा' पक्षिगणास्तेषां मिथुनः बन्दै सेव्यमानं सलिलं यस्य, तं । पुनः पद्मिनीपत्रोपलग्नजलबिन्दुनिचयैः 'चित्रं' मण्डितमिव, इन्द्रनीलरत्नानुकारीणि पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुनिकरैरतीव शोभन्ते, तैश्च पत्रैस्तत्सरः कृतचित्रमिवाभातीति हृदयम् । पुनर्जनानां हृदयनयनयोः 'कान्तं' वल्लभं, तथा सरस्सु अर्ह' पूज्यं, अत एव अभिरामं रम्यं, एतादृशं पद्मसरो नाम सरः प्रेक्षते सा-त्रिशला १०॥
For Private And Personal Use Only