________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मचर्य
विषये विजयान्वितविजय
चरित्रप्ररूपणम्।
तदाच्छसद्भावनया ददेऽहं, चतुर्विधाहारमदोषमेभ्यः। स्याद् यत्प्रभावाद्विमलं खजन्मे-त्येवं स दध्यौ सुविशुद्धचित्तः ॥१४॥ युग्मम् अथैकदा तस्य पुरस्य भाग्यात्, श्रीकेवली श्रीविमलाभिधानः। भव्याजसूर्यस्समवासरत्स, तद्देशनां तां श्रुतवान् पवित्राम् ॥१५॥ चतुर्युताशीतिसहस्रसङ्ख्या, रङ्कस्य मे वेश्मनि साधुवर्याः। विशुद्धभोज्यैः प्रतिलम्भनीया, एवं स्पृहा सेत्स्यति मे न वा किम् ? ॥ १६ ॥ तत्पृष्ट इत्थं भगवानुवाच, नैवेति श्रुत्वा स विषादमाप । मनस्सरस्येव विलीनतां किं, यायात्स्पृहाबुद्बुद एष मे द्राक ? ॥१७॥ मनोरथो मे फलदो न किं स्यात्,, केनाप्युपायेन कदापि नाथ !। रङ्के मयीशाशु कृपां विधेहि, यतस्पृहासिद्धित उद्धतिौ ॥१८॥ संतप्तशान्त्येकपरायणोऽसौ, दयाचित्तो भगवान जगौ तं । मा दैन्यभावं भज तेऽभिलाषो-ऽन्यस्मात्प्रकारान्नु फलिष्यतीति ॥१९॥ कृताञ्जलिः श्रीभगवन्तमीशं, नत्वा पुनः केवलिनं जगौ सः।। कोऽसौ प्रकारो भगवन् ! कृपालो?, व्यावर्ण्यतां मत्पुरतोऽधुनैव ॥२०॥
For Private and Personal Use Only