________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषणपर्वकल्प-1 प्रभायां
ब्रह्मचर्यविषये वि| जयान्वितविजय
श्रेष्ठिचरित्र
वर्णनम् ।
स्कर
माधुर्यरूपाः प्रथमं विपाके, कटुखरूपाः परितोऽपि मध्ये । किम्पाकतुल्याः क्षणसौख्यदाश्चा-न्तेऽनल्पदुःखैकखनिर्हि भोगाः ॥७॥ सद्धर्मरक्तेति मुनेर्निशम्य, ब्रह्मोपदेशं दृढसत्त्वशीला। ब्रह्मव्रतं कृष्णदलेऽग्रहीत्सा, तयोर्विवाहोऽजनि दैवयोगात् ॥८॥ तौ दंपती सम्मिलिती रजन्यां, मिथो व्रतं तन्ननु बुद्धवन्तौ। जगाद नाथं विजयाऽतिहर्षाद, यथेच्छमन्योपयमं कुरुध्वम् ॥९॥ धमैकमूर्तिर्विजयस्तदाऽवक , हंसीव हंसोऽपि सदात्ति मुक्ताम् । सुशीलमुक्तां त्वमिवाप्यहं वै, तथा रमे हंस्युपमे चरिष्ये ॥१०॥ कदापि दंष्ट्रीव न भोगविष्ठा-मत्स्यामि जन्माऽफलकं यतस्स्यात् । निश्चित्य चैव ननु सर्वथैव, ब्रह्मव्रतं धारयतस्स्म नित्यम् ॥११॥ ज्ञाते पितृभ्यां नियतं हि दीक्षा, ग्राह्येति संघां कुरुतस्म तो द्राक् । चम्पानगया जिनदासनामा, श्रेष्ठी जिनेन्द्रागमबद्धनिष्ठः॥१२॥ चतुर्युताशीतिसहस्रसङ्ख्या, रङ्कस्य भाग्याद्यदि मे गृहं द्राक् । अभ्याब्रजेयुर्मुनयो विमुक्ति-मार्गाध्वनीना भवसिन्धुनावः ॥ १३ ॥
For Private and Personal Use Only