________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यक्षोद्देशः। विचारं सहते। नाप्यक्रियादर्शिनोऽपि कृतबुद्ध्यत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् । कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धे तुकत्वं स्यात् । तत्रापि खननोत्सेचनातू कृतमिति गृहीतसङ्कतस्य कृतबुद्धिसम्भवात् । सा मिथ्येति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्थ प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षणोभयत्रापि कर्तुरग्रहणात् । तित्यादिक बुद्धिमद्धेतुकं न भवति अस्मदाद्यनवग्राद्यपरिमाणाधारत्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात् ।
तन्न कृतसमयस्य कृतबुद्धरत्पादकत्वम् । नाप्यकृतसमयस्यासिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । कारणव्यापारानुविधायित्वज्य कारणमात्रापेक्षया यदीष्यते तदा विरुद्ध साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तद पेक्षया कारणव्यापारानुविधायित्वं कार्यत्वं ततस्तहिथेसिद्धिरिति मनिवेश विशिष्टत्यमचेतनोपादानत्वज्चोक्तदोषदुष्टत्वान पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् । विसद्धाश्चामौ हेतवो दृष्टान्तानुग्रहेण सशरीरासर्वतपूर्वकत्वसाधनात् । न धूमातू पावकानुमानेऽप्ययं दोषः । तत्र ताण पार्णादिविशेषाधारानिमात्र व्यासधूमस्य दर्शनात् ।
नवमत्र सर्वज्ञासर्वनकर्त्तविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः । सर्वज्ञस्य कारितोऽनुमानात् प्रासिद्धत्वात् । व्यभिचारिणस्वामी हेतवः बुद्धिमत्कारणमन्तरेणापि विद्युदादीनां प्रादुर्भावसम्भवात् । सुप्ताद्यवस्थायां अबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् । तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितम् । तहमपारस्याप्यसम्भवात् अशरीरत्वात् ज्ञानमात्रण कार्यकारित्वाघटनादिच्छाप्रयत्नयोः शरीराभावेऽसम्भवात् । तदसम्भवश्व पुरातनैर्विस्तरेणार्भािहत प्राप्तपरीक्षादो। अतः पुनरत्र नोच्यते ॥ __यच्च महेश्वरस्य क्लेशादिभिरपरामृष्टत्वं निरतिशयत्वमैश्वर्य्यायपेतत्वं तत् सर्वमपि गगनाजसोरभव्यावर्णनमिव निर्विषयत्वादुपेक्षामर्हति । ततो न महेश्वरस्या घनत्वम् । नापि ब्रह्मणः। तस्यापि सद्भावावेदकप्रमाणाभावात् । न तावत् प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात् । न चानुमानविनाभाविलिङ्गाभावात् ।
ननु प्रत्यक्षं तदग्राहकमस्तेरवाक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्र विधिविषयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् । तथाचोक्तम् ।
अस्ति घालोचनाज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।। न च विधिवत् परस्परव्यावृत्तिरप्यध्यक्षतः प्रतीयते इति तसिद्धिः। तस्य निषेधाविषयत्वात् । तथाचोक्तम् ।
आहुर्विधातृप्रत्यक्षं न निषेद्धविपश्चितः ।
नैकत्वे अागमस्तन प्रत्यक्षण प्रबाध्यते ।। अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि । ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् । यत् प्रतिभासते तत् प्रतिभासान्तःप्रविष्टं यथा प्रतिभामस्वरूपम् । प्रतिभामन्ते च विवादापना इति । तदागमानामपि-पुरुषा रवेदं यमृतं यच्च भाव्यमिति बहुलमुपलम्भात् । स वै खल्विदं ब्रह्म, नेह नानास्ति किज्जन । प्रारामं तस्य पश्यन्ति न तं पश्यति कश्चनेति श्रुतेश्च ।
ननु परमब्रह्मण एव परमार्थसत्वे कथं घटादिभेदोऽवभासते । इति न चोद्यम् ।
For Private and Personal Use Only