________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुत्तिः । अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतं तदतिजाड्यलातमेवोत्पत्तिसत्त्वं प्रति विवादे वस्तुसत्त्वस्यातिदुर्घटत्वात् । इतरेतराश्रयदोघश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालौनसत्तासम्बन्धावगमः तदवगमे च तत्रत्यसबेनोत्पत्तिसत्त्वनिश्चय इति ।
प्रयतदोषपरिजिहीर्घया तयोरैक्यमप्यनुज्ञायते । तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धे तुकले गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः ।
अयोभयसम्बन्धी कार्यवमिति मतिः। मापि न युक्ता । तत्सम्बन्धस्यापि कादाचित्कले समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् । अकादाचित्कल्वे सर्वदोपलम्भप्रसङ्गः ।
अथ वस्तूत्पादककारणानां सन्निधानाभावान सर्वदोपलम्भप्रमङ्गः। ननु वस्तूत्पत्ता) कारणानां घ्यापारः । उत्पादश्च स्वकारणसत्तासमवायः। स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्तार्थं तदुपादानमित्यपि वार्तम् । वस्तूत्पादापेक्षयाभिव्यक्तरघठनात् । वस्त्वपेक्षयाभिव्यक्ती कारणसम्यातात् प्रागपि कार्य्यवस्तुसद्भावप्रसङ्गात् । उत्पादस्याप्यभिव्यक्तिरसम्भाव्या । स्वकारणसत्तासम्बन्धलक्षणस्योत्पादस्यापि कारणव्यापारात्प्राक्सद्भावे वस्तुसद्भावप्रसङ्गात् । तल्लक्षणत्वादस्तुसत्त्वस्य । प्राक्सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमस्तिरोहितस्य घटस्यैव प्रदीपादिनेति । तन्नाभिव्यक्तार्थं कारणोपादानं युक्तम् ।
तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् । नाप्यभूत्वाभाविवं तस्यापि विचारासहत्वात् । प्रभूत्वाभावित्वं हि भिन्नकालक्रियादयाधिकरणभूते कर्तरि सिद्ध सिद्धिमध्यास्ते स्वान्तपदविशेषितवाक्यार्थखात् मुवा व्रजतो त्यादिवाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कत्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भावनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्य्यायमात्रेणैव भेदो न वास्तव इति।
___ अस्तु वा यथाकथविदभूल्ला भाविवं तथापि तन्वादौ सर्वत्रानभ्युपगमात् भागासिद्धम् । न हि महौधराकूपारारामादयः प्रागभूत्वा भवन्तोऽभ्युपगम्यन्ते परस्तेषां तैः सव्वदावस्यानाभ्युपगमात् ।
अथ सावयवखेन तेषामपि सादिवं प्रसाध्यते तदप्यशिक्षितलक्षितम् । अवयवेषु वृत्तरवयवेरारभ्यखेन च सावयवत्वानुपपत्तेः। प्रथमपक्ष अवयवसामान्य नानेकान्तात् । द्वितीयपक्षे साध्या विशिष्ठत्वात् ।
अथ सन्निवेश एव सावयवत्वम् । तच्च घटादिवत् । पृथिव्यादावुपलभ्यते इत्यभूत्वा भावित्वमभिधीयते । तदप्पपेशलम् । सनिवेशस्यापि विचारामहत्वात् । स छवयवसम्बन्धो भवेत् रचनाविशेषो वा। यद्यवयवसम्बन्धस्तदा गगनादिनानेकान्तः । सकलमूर्तिमव्यसंयोगनिबन्धनप्रदेशनानात्वस्य सद्भावात् ।।
अयोपचरिता एव तत्र प्रदेशा इति चेत् । तर्हि सकल मूर्तिमद्दयसम्बन्धस्यापि उपचरितत्वात् सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थकारित्वज्च न स्यात् उपचरितप्रदेशरूपत्वात् । धादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्रपस्य तेनोपकारायोगात् खरविषाणस्येव ततो नकिञ्चिदेतत् ।।
अथ रचनाविशेषः तदा परं प्रति भागासिद्धत्वं तदवस्यमेवेति नाभूत्वाभावित
For Private and Personal Use Only