________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुत्तिः । ग्रहणोत्तरकालमुत्पत्तावस्यातः परिच्छितर्विशेषोऽवभासते। गृहीतप्रामाण्यापि विज्ञानानिर्विशेषविषयपरिच्छ दोपलब्धः ।
ननु परिच्छित्तिमात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्य्यत्वप्रसङ्गइति चेत् भवेदेवं यद्यर्थान्यथावप्रत्ययस्वहेतृत्यदोषज्ञानाभ्यां तन्नापोह्यत । तस्माद् पत्र कारणदोषज्ञानं बाधकप्रत्ययो वा नोदेति तत्र स्वतएव प्रामामिति । न चैवमप्रामाण्येप्याशङ्कनौयं तस्य विज्ञानकारणाििरक्तदोषस्वभावसामग्रीसव्यपेक्षतयोत्पत्तेः । नित्तिलक्षणे च स्वकार्य स्वग्रहणसापेतत्वात् । तद्धि यावन्न ज्ञानं न तावत् स्वविषयात् पुरुषं निवर्त्तयतीति ।।
तदेतत् सर्वमनल्पतमोविलसितम् । तथाहि न तावत् प्रामाण्यस्योत्पत्ती सामग्रान्तरापेक्षत्वमसिद्धमाप्तप्रणीतत्वलक्षणगुणान्निधाने सत्येवाप्त प्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्त्यनुत्पत्तौ तत्तत्कारणकमिति लोकपि सुप्रसिद्धत्वात् । यदुक्तम् । विधिमुखेन कार्यसुखेन वा गुणानामप्रतीतिरिति । तत्र तावदानप्रणीतशब्देन प्रतीति गणानामित्ययुक्तं श्राप्तप्रणीतत्वहानिप्रसङ्गात् ।।
अथ चक्षुरादौ गुणानामप्रतीतिरित्यच्यते तदप्ययुक्तं नैर्मलादिगुणानामबलाबालादिमिरप्युपलब्धः।
अघ नैर्मल्यं स्वरूपमेव न गुणस्तर्हि हेतोरविनाभाववैकल्यमपि स्वरूपविकलतैव न दोष इति समानम्। .
अथ तहकलमेव दोषस्तर्हि लिङ्गस्य चक्षरादेर्वा तत्स्वरुपसाकल्पमेव गुणः कथं न भवेत् । प्राप्तोक्तऽपि शब्दे मोहादिलक्षणस्य दोषस्थामावमेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छन्नन्यत्र तथा नेच्छतौति कथमनुन्मत्तः ।
अधोक्तमेव शब्द गुणाः सन्तोऽपि न प्रामाण्योत्पत्ती व्याप्रियन्ते । किन्तु दोघाभाव एवेति सत्यमुक्तं किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साधसिद्धरयोगात् । न हि गुणेभ्यो दोघाणामभाव इत्यत्र किञ्जिनिबन्धनमुत्पश्यामोऽन्यत्र महामोहात् ।
अथानुमानेऽपि विरूपलिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरितिचेन्न । उक्तोत्तरत्वात् । तत्र हि बैरूप्यमेव गुणो यथा तवैकल्यं दोघ इति नासम्मतो हेतुरपि चाप्रामाण्यऽप्येवं वक्तुं शकातएव । तत्र हि दोषेभ्यो गुणानामभावस्तदभावाच्च प्रामाण्यासत्त्वे अप्रामाण्यमौत्सर्गिकमास्त इत्यप्रामाण्य स्वतरवैति तस्य भिन्न कारणप्रभवत्ववर्णनमुन्मत्तभाधितमेव स्यात् ।।
किच गुणेभ्यो दोधाणामभावइत्यभिदधता गुणेभ्यो गुणएवेत्यभिहितं स्यात् । भावान्तरस्वभावत्वादभावस्य । ततोऽप्रामाण्यासत्त्वं प्रामाण्य मेवेति । नैतावता परपत्तप्रतिक्षेपः । अविरोधकत्वात् । तथानुमानतोपि गुणाः प्रतीयन्तएव । तथाहि प्रामाण्यं विज्ञानकारणातिरिक्तकारण प्रभवं विज्ञानान्यत्वे मति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणप्रामाण्ये भिन्न कारणजन्ये भिन्न कार्यत्वात् घठवस्ववदिति च । ततः स्थितं प्रामाण्यमुत्पत्तौ परापेतमिति । तथा विषयपरिच्छित्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्य स्वग्रहणं नापेक्षत इति नैकान्तः। क्वचिदभ्यस्तविधयएव परानपेक्षवव्यवस्यानात् । अनभ्यस्ते तु जलमसमरीचिकासाधारणप्रदेश जलज्ञानं परापेक्षमेव सत्यमिदं जलं विशिष्टाकारधारित्वात् । घटचेटिकापेटकदरारावसरोजगन्धवत्त्वाच्च परिदृष्टजलवदित्यनुमानज्ञानादर्थक्रियान्नानाच्च स्वतःसिद्ध
For Private and Personal Use Only