________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रामाण्य स्वरूपोदेशः ।
अत्रोल्लेखमाह ॥ ८॥
ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानमात्मानं फलं वेति केचित् । कतकर्मणोरेव प्रतीतिरित्यपरे । कतकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतौतिबाधितमिति दर्शयन्नाह ॥ ॥
ज्ञानविषयभूतं वस्तु कर्माभिधीयते तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तहत् कर्त्तात्मा करणं प्रमाणं क्रिया प्रमितिः। कर्ता च करणज्च क्रिया च तासां प्रतौतिस्तस्या इति हेतौ। का प्रागुक्तानुभवाल्लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ९॥
ननु शब्द परामर्शसचिवेयं प्रतीतिर्न वस्तुतत्त्वबलोपजातेत्यत्राह ॥ १० ॥
यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तधाहमहमिकया योऽयमन्तर्मुखाकारतयावभासः स शब्दानुच्चारणेऽपि स्वयमनुभूयत इत्यर्थः ।। १० ।।
प्रमुमेवार्थ मुपपत्तिपूर्वकं परं प्रति सोल्लमाचष्टे ॥ ११ ॥
को वा लौकिकः परोक्षको वा । तेन ज्ञानेन प्रतिभासितु शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् । वियिधर्मस्य विषये उपचारात् । तदेव ज्ञानमेव तथा प्रत्यक्षवेन नेच्छत् । अपि विच्छेदेव । अन्यथा प्रामाणिकत्वप्रसङ्गः स्यादित्यर्थः ॥ ११ ॥
अत्रोदाहरणमाह ॥ १२ ॥
इदमत्र तात्पर्य्यम् । ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपेक्षं प्रत्यक्षार्थगुणत्वे मति अदृष्टानुयायि करणवात् । प्रदीपभासुराकारवत् ॥ १२ ॥
अथ भवतु नाम उक्तलक्षणलक्षितं प्रमाणं तथापि तत्प्रामाण्यं स्वतः परतो वा। न तावत्स्वतः। अविप्रतिपत्तिप्रसङ्गात् । नापि परतोऽनवस्थाप्रसङ्गात् । इति मतदयमाशङ्कर तनिराकरणेन स्वमतमवस्थापयन्नाह ॥ १३ ॥
सोपस्काराणि हि वाक्यानि भवन्ति। तत इदं प्रतिपत्तव्यं अभ्यासदशायां खतोऽनभ्यामदशायाञ्च परतइति। छेन प्रागुक्तकान्तद्वनिरासः। न चानभ्यासदशायां परतः। प्रामाण्य ऽप्यनवस्था समाना। ज्ञानान्तरस्याभ्यविषयस्य स्वतः प्रमाणभूतस्याङ्गौकरणात् । अथवा प्रामाण्यमुत्पत्तो परत एव विशिष्टकारणप्रभवत्वात् विशिष्टकार्यस्येति विषयपरिच्छित्तिलक्षणे वा स्वकार्य अभ्यासेतरदशापेक्षया कचित्स्वतः परतश्चेति निश्चीयते ॥१३॥
ननु उत्पत्ती विज्ञानकारणातिरिक्तकारणान्तरमव्यपेक्षत्वमसिद्धं प्रामाण्यस्य तदितरस्येवाभावात् । गुणाख्यमस्तीति वामात्रम् । विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतेः । नाप्यमामाण्यं स्वतएव प्रामाण्यन्तु परत एवेति विपर्ययः शक्यते कल्पयितुम् । अन्वयव्यतिरेकाभ्यां हि त्रिरूल्लिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिॉप तथैव प्रतिपत्तव्यं नान्यथेति ततएवाप्तोक्तत्वगुणसद्भावेऽपि न तत् कृतमागमस्य प्रामाण्यम् । तत्र हि गुणेभ्यो दोषाणामभावस्तदभावाच्च संथविपर्यासलक्षणाप्रामाण्यवयासत्त्वेऽपि प्रामाण्यमोत्सर्गिकमनपोहितमास्त एव इति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्रान्तरसापेतमिति । नापि विषयपरिच्छित्तिलक्षणे स्वकार्य स्वग्रहणसापेक्षमगृहीतग्रामाण्यादेव ज्ञानाविषयपरिच्छित्तिलक्षणकार्यदर्शनात् ।।
ननु न परिच्छित्तिमात्रं प्रमाणकार्य तथ्य मिथ्याशानेऽपि सद्भावात् । परिच्छित्तिविशेषन्तु नागृहीतप्रामाण्यं विज्ञानं जनयतीति तदपि बालविलसितम् । न हि प्रामाण्य
For Private and Personal Use Only