________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥५८॥ तस्येव व्याप्तिगोचरत्वेऽप्रमाणान्तरत्वं अप्रमाणस्याव्यवस्थापकत्वात् ॥६॥ विषयाभासः सामान्यं विशेषो दयं वा स्वतन्त्रम् ॥६१॥ तथा प्रतिभासनात्कार्याकारणाच्च ॥६२॥ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥६३॥ परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥६४॥ स्वयमर्थस्याकारकत्वात्पूर्ववत् ॥६५॥ फलाभासं प्रमाणादभिन्न भिन्नभेव वा ॥६६॥ अभेदे तयवहारानुपपत्तेः ॥६॥ व्यावृत्त्यापि न तत्कल्पना फलान्तराव्यावृत्त्या फलत्वप्रसङ्गात् ॥६८॥ प्रमाणान्तराव्यावृत्त्येवाप्रमाणत्वस्य ॥६६॥ तस्माद्यास्तवो भेदः ॥७॥ भेदेवात्मान्तरवत्तदनुपपत्तेः ॥७१॥ समवायेऽतिप्रसङ्गः ॥७२॥ प्रमाणतदाभामौ दुष्टतयोद्भावितौ परिहतापरिहतदोषौ वादिनः माधनतदाभासौ प्रतिवादिनो दूषणभूषणे च ॥७३॥ सम्भवदन्यविचारणीयम् ॥७॥
इति परीक्ष्यमाणस्याभासोद्देशः षष्ठः ॥ ६ ॥ परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः ।
संविदे मादृशो बालः परीक्षादक्षवड्यधाम् ॥ इति श्रीमाणिक्यनन्दिविरचितानि परीक्षामुखसूत्राणि समाप्तानि । सू. सं. ॥२०७॥
For Private and Personal Use Only