SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३८६ www. kobatirth.org पराशरमाधवः । तदृत्त्यर्थं ब्राह्मणलिङ्गधारणे वेदितव्यम् । ब्राह्मणपौड़ाकारिणो दण्डमाच मनुः, - “ब्राह्मणान् बाध्यमानन्तु कामादवरवर्णजम् । हन्याच्चित्रैर्बधोपायैस्तमुद्देजकरैर्नृपः” इति । शूद्राणां प्रब्रज्यादौ दण्डमाह कात्यायन:"प्रत्रव्यावासिनं शूद्रं जपहोमपरं तथा । बधेन शमयेत् पापं दण्ड्यो वा द्विगुणं दमम्” इति । एवं शास्त्रोकमार्ग (१) माह यमः, - Acharya Shri Kailassagarsuri Gyanmandir “एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च । यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽचयः” इति । मनुरपि, “एवं सर्वानिमाबाजा व्यवहारान् समापयन् । व्यपोह्य किल्विषं सर्वे प्राप्नोति परमाङ्गतिम्” इति । इति श्रीमहाराजाधिराजपरमेश्वर वैदिकमार्ग प्रवर्त्तकश्रौवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां व्यवहारमाधवः समाप्तः ॥ ममाप्त चेदं व्यवहारकाण्डम् ॥ समाप्ता चेयं पराशरस्मृतिव्याख्या ॥ शुभमस्तु । श्रीरस्तु ॥ (१) शास्त्रोक्तोमागों यस्य राजस्तं प्रतोत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy