________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
३६५
"राजयानासनारोहे दण्डो मध्यमसाहसः" इति । कात्यायनोऽपि,"राजकौडास ये मक्का राजवृत्त्युपजीविनः ।
अप्रियञ्चास्य यो वका बलं तेषां प्रकल्पयेत्” इति । राज्ञः कोशापहरणादौ दण्डमाह मनुः,
"राज्ञः कोशापहत्तश्च प्रतिकूलेषु च स्थितान् ।
घातयेद्विविधैर्दण्डैहरेत्सर्वस्वमेवच” इति । सर्वस्वापहारेऽपि यद्यस्य जीवनोपकरणं तत्तस्य नापहर्तव्यमित्याह नारदः,
"आयुधान्यायुधीयानां बीजानि कृषिजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यावाद्यानि तदिदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारकाः ।
सर्वखहरणेऽप्येतन राजा हर्तुमर्हति" इति । ब्राह्मणस्य बधस्थाने मौण्ड्यमाह मनुः,
"ब्राह्मणस्य बधे मौण्ड्यं पुराविर्वासनाङ्कने ।
ललाटे चाभिशस्ताझं प्रयाणं गर्दभेन तु” इति । कोपात्परस्परभेदनादौ दण्डमाह याज्ञवल्क्यः,
"दिनेत्रभेदिनी राज* विष्टादेशकृतस्तथा। विप्रचिन शूद्रस्य जीवतोऽष्टमतो दमः” इति । यत्तु सत्यन्तरेऽभिहितम्,
"द्विजातिलिङ्गिनः शूद्रान् चित्रदण्डेन घातयेत्” इति। * राजा,- इति शा० ।
For Private And Personal Use Only