________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
अध्यावाहनिकं नाम स्त्रीधनं तदुदाहतम् ॥ पौत्या दत्तच्च यत्किञ्चिदन्येन श्वशुरेण वा ।
प्राधिवेदनिकञ्चैव प्रौतिदत्तं तदुच्यते”-इति । बन्धुदत्तं कन्यामारपिटबन्धुभिर्दत्तम्। शुल्कं, यद् ग्यहोवा कन्या दौयते। अचाधेयकं परिणयनादनु पश्चाहत्तम्। तदुकं कात्यायनेन,
"ग्रहोपस्करवाह्यानां दोह्याभरणकर्मिणम् । मूल्यं लभन्नु यत्किञ्चित् शुल्कं तत् परिकीर्तितम् ॥ विवाहात्परतो यत्तु लथं भर्तः कुलात् स्त्रिया ।
अन्वाधेयं तु तट्रव्यं लब्धं पिटकुलान् नथा" इति । पित्रादिभिः स्त्रीभ्यो धनदाने विशेषमाह कात्यायनः,
"पिटमापतिभ्राटज्ञातिभिः स्त्रीधनं स्त्रिये ।।
यथाशक्त्या दिसाहस्रं दातव्यं स्थावरादृते"-इति । यथाशक्ति स्थावरव्यतिरिक्तं धनं दिसहस्रकार्षापणपर्यन्तं दातव्यमित्यर्थः । अयञ्च नियमः प्रत्यब्ददाने(१) वेदितव्यः । अनेकाब्दे - पजीवनाथ मकदेव दाने नायमवधिनियमः। नापि स्थावरपर्युदासः । तथाच वृहस्पतिः,
"दद्याद्धनञ्च पर्याप्तं क्षेत्रांशं वा यदिच्छति"-दुति । • अतएव मौदायिके स्थावरेऽपि यथेष्टविनियोगार्हत्वमुक्रन्तेनैव,
"जढ़या कन्यया वाऽपि भर्तुः पिटम्टहेऽपि वा। भातुः सकाशात् पित्रोर्वा लब्धं मौदायिकं स्मृतम् ॥
(२) प्रत्यब्ददानएव स्थावरपर्युदासः न तूपत्रीवनार्थ दाने इति भावः ।
-
47
For Private And Personal Use Only