________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् |
48
Acharya Shri Kailassagarsuri Gyanmandir
संसृष्टानां धनानुसारेण विषमविभागप्राप्त्यर्थम् । संसर्गः कैरित्य
पेचिते बृहस्पतिः, -
१६१
“विभक्तो यः पुनः पिचा भ्रात्रा चैकच संस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते " - इति ।
यः पूर्वं पिचादिना विभक्तः पुत्रादिः पुनः प्रीत्या तेन सह समापत्रः, स संसृष्ट उच्यते । येन केनापि सहवासमापन इत्यर्थः । afejस्टष्टिना विषमविभागमाह बृहस्पतिः, -
:
“संसृष्टानान्तु यः कश्चित् विद्याशौर्य्यादिनाऽधिकम् । प्राप्नोति तच दातव्योयंशः शेषाः समशिनः ” - इति । विद्यादिना प्राप्ते अधिके धने अंशदयं दातव्यं न सर्वस्मिन्निति । एतत्संसृष्टद्रव्यानुपरोधेनार्जितेऽपि विभाव्यत्वप्राप्त्यर्थम् (९) । अपुत्रस्य संसृष्टिनः स्क्थग्राहिणं दर्शयति याज्ञवल्क्यः, -
“संसृष्टिनस्तु संसृष्टौ सोदरस्य तु मोदरः ।
दद्याच्चापहरेचांशं जातस्य च मृतस्य च” – इति ।
श्रयमर्थः । संसृष्टिनो मृतस्यांशं विभागकाले श्रविज्ञातगर्भार्या भार्य्यायां पञ्चादुत्पन्नस्य पुत्रस्य इतरः संसृष्टौ दद्यात् पुत्राभावे संसृष्येवापहरेत् ; न पत्न्यादि । पत्नीनामप्रत्तदुहितृणां च भरणमात्रम् । तदाह नारदः, -
(१) साधारणधनोपघातेनायितुर्भागादयस्य सामान्यतएव प्राप्तत्वात् संस्टटविषये विशेषवचनारम्भस्यार्थवत्त्वार्थं तत्रानुपघातार्जितेऽमि संस्टटधने अर्जकस्य दावंशौ इतरेषामेकैकेाऽ शइति कथ्यते इति
भावः ।
For Private And Personal Use Only