________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
यज्ञार्थ विहितं वित्तं तस्मात्तदिनियोजयेत् ।
स्थानेषु स्खेषु जुष्टेषु न स्वीमूर्खविधर्मिषु”-इति । तद्यज्ञार्थमेव सम्पादितधनविषयम् । यदपि कात्यायनेनोत्रम्,
"प्रदायिक राजगामि योषिवृत्त्यौर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत्” इति । अर्पणमशनाच्छादनोपयुकं धनिनः श्राद्धाधुपयुक्तञ्च मुक्का श्रदायिकधनं राजगामि भवति । श्रोत्रियद्रव्यं तु योषिवृत्त्यौ - देहिकमपास्य श्रोत्रियस्यैव न राज्ञ इत्यर्थः । यदपि नारदेनोक्रम्,
"अन्यत्र ब्राह्मण त्किञ्चिद्राजा धर्मपरायणः । तत्स्त्रीणां जौवनं दद्यादेष दायविधिः स्मृतः" इति । तदुभयमण्यवरुद्ध स्त्रीविषयं, पत्नौशब्दश्रवणात् १) । यदपि हारौतेनोक्तम्,
"विधवा यौवनस्था चेत् पनौ भवति कर्कगा।
श्रायुषो रक्षणार्थं तु दातव्यं जौवनं तदा"-इति । तदपि शङ्कितव्यभिचारस्त्री विषयम् । यदपि प्रजापतिवचनम्,
"बाढ़कं भर्तृहौनायाः दद्यादामरणान्तिकम्'"-इति ।
* व्ययणाम शनाच्छादनोपयुक्तं,-इति का०। पाठदयमप्यसमीचौनं प्रति
भाति । + दद्यादा रमणात् स्त्रियाः,-इति का ।
(१) पत्नौ दुहितरः इत्यादि धनाधिकारबोधकवचनेविति शेषः ।
For Private And Personal Use Only