________________
Shri Mahavir Jain Aradhana Kendra
३५८
www. kobatirth.org
तथा,
पराशर माधवः ।
नियोगो गौतमादिवचनबलात्कल्प्यते इति युक्तमिति चेत् । न । गौतमादिवचनानामर्थान्तरपरत्वात् । तथा हि । तत्र यगौतमवचनं, “सपिण्डसम्बन्धा ऋषिसम्बन्धा पटक्थं भजेरन् । स्त्रौ वा श्रनपत्यस्य बीजं लिप्सेत " - इति । तस्य नायमर्थः, यदि बीजं लिप्त तदा पत्नी श्रनपत्यधनं गृह्णातीति । श्रपि तर्ह्यनपत्यस्य धनं पिण्डगोत्रर्षि - सम्बन्धागृहीयुः । जाया न । सा स्त्री बीजं वा लिप्त संयता वा भवेदिति । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थे प्रयोगाभावात् । यदपि धनं यो विभृयादित्यादि मनुवचनं, तदपि चेत्रजस्यैव धनसम्बन्ध वत्ति न पत्न्या इति । शङ्खवचनमपि संयताया एव धनसम्बन्धं वति, न तु देवरादिनियुक्तायाः । अन्यथा,
“श्रपुचा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च” - इति ।
Acharya Shri Kailassagarsuri Gyanmandir
“श्रपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । भुञ्जौतामरणात् चान्ता दायादा उर्ध्वमायुः " -
इति मनुकात्यायनवचनविरोधप्रसङ्गात् । तस्मादनपत्यस्य विभक्तस्यासंसृष्टिनो मृतस्य धनं पत्नी ग्टहाति इत्येव व्यवस्था ज्यायसी । यत्तु स्त्रीणां धनसम्बन्धाभावप्रतिपादकवचनम्, - “यज्ञार्थं द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । तदृक्थभाजस्ते* सर्वे ग्रामाच्छादनभाजनाः ॥
* इत्यमेव पाठः सर्व्वत्र । मम तु, वऋक्थ भाजस्ते, - इति पाठः प्रतिभाति ।
For Private And Personal Use Only