________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२४७
मनुरपि,
"पापोपपापवकारो महापातकशंसकाः ।
श्राद्यमध्योत्तमान्दण्डान् दद्युस्त्वेते यथाक्रमम्(१)" इति । विद्याद्यधिक्षेपे याज्ञवल्क्यः,
"वैविद्यनृपदेवानां दण्ड उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमोग्रामदेशयोः” इति । जातयः ब्राह्मणादयः । पूगाः सवाः । शूद्रमधिकृत्याहतुर्मनुनारदौ,
“एकजातिर्दिजातिं तु वाचा दारुणया क्षिपन् । जितायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः । नामजातिग्रहच्चैषामभिद्रोहेण कुर्वतः ॥ निखेयोऽयोमयः शङ्कुचलनाश्ये दशाङ्गुलः" इति । रहस्पतिरपि,
“धर्मापदेशं धर्मेण विप्राणामस्य कुर्वतः ।
तप्तमा सेञ्चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः"--इति । क्वचित् वाक्पारुष्यदण्डापवादमाह सएव,
“मच्छूट्रस्यायमुदिष्टो विनयोऽनपराधिनः । गुणहीनस्य पारुय्ये ब्राह्मणो नापराध्नुयात्" इति ॥
इति वाक्पारुथम् । (९) पापमुपपापात् न्यूनं विवक्षितम् । पापवक्ता याद्यसा इसं दणंदद्यात् । उपपायवक्ता मध्यमसाहसं, महापाप पांसक उत्तमसा हसमित्यर्थः ।
For Private And Personal Use Only