SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । Acharya Shri Kailassagarsuri Gyanmandir दिनादारभ्य यावत् त्रिपचं यदि राजदैविकव्यसनं नोत्पद्यते, तदा तत्प्रदर्शनात् सोमानिर्णयः । तथाच कात्यायनः, - "सौमाचङ्क्रमणे कोशे पादस्पर्शे तथैवच 1 चिपचपञ्चसप्ताहं देवराजकमिय्यते " - इति । २०५ यस्त्वत्र निषेधः स्मृत्यन्तरेऽभिहितः, " वाक्पारुय्ये महौवादे दिव्यानि परिवर्जयेत्” - दूति । म उक्तलचणपुरुषाभावविषय इत्यविरोधः । कथन्तर्ह्यत्र निर्णय इत्यपेचिते नारदः, “ यदा तु न स्युर्ज्ञातारः सौमायाश्चापि लक्षणम् । तदा राजा द्वयोः सोमामुन्नयेदिष्टतः स्वयम्” - इति । दुष्टतः, दूच्छातः । याज्ञवल्क्योऽपि - For Private And Personal Use Only “श्रभावे ज्ञातचिह्नानां राजा सौम्नः प्रवर्त्तिता" - इति । ज्ञातृणां सामन्तादीनां चिह्नानां वृचादीनामभावे राजेव सौम्नः प्रवर्त्तयिता । ग्रामद्वयमध्यवर्त्तिनों विवादास्पदीभूतां भुवं समं प्रविभज्य उभयोर्ग्रामयोः समर्थ तन्मध्ये सोमालिङ्गानि कारयेत् । यदा तस्याभूमेर्यत्रैवोपकारातिशयो दृश्यते, तदा तस्यैव ग्रामस्थ सकला भू: समर्पणौया । तथाह मनुः, - “मौमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेडूमिमेकेषां उपकारादिति स्थितिः " इति । श्रविषह्यायां, ज्ञातज्ञापकशून्यायामित्यर्थः । ऋणादिनिर्णयवत् सोमानिर्णयो नावेदनानन्तरमेव कार्य्यः किन्तु प्रकाशितेषु सेवादिषु । तदाह सएव -
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy