SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ परापूरमाधवः। "रात्रौ चरन्ती गौः पञ्च माषान् रात्रिमुहर्त माषं दण्डं ग्रासे"--इति। आतुरपशविषये तु न दण्ड इत्याह नारदः, "जराग्रह* ग्टहीतो वा बज्रा शनिहतोऽपिवा । अपि मर्पण वा दष्टो वृक्षादा पतितो भवेत् ॥ व्याघ्रादिभिर्हतो वाऽपि व्याधिभिर्वाऽप्युपद्रुतः । न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम्" इति। अनातुरेवपि केषुचित् पशुषु दण्डाभावमाह मएव, “गौः प्रसूता दशाहन्त महोचो वाऽपि कुञ्जराः । निवार्याः स्युः प्रयत्नेन तेषां स्वामी न दण्डभाक्”-दति । मनुरपि, "अनिर्दशाहां गां सूतां वृषान् देवपशून् तथा । सपालान् वा विपालान् वा न दण्ड्यान्मनुरब्रवीत्" इति। वृषामहोपाः। अथवा, वृषोत्सर्गविधानेनोत्सृष्टाः। याज्ञवल्क्योऽपि, “महोचोत्सृष्टपशवः सूतिकाऽऽगन्तुकादयः । पालोयेषां च ते मोच्या देवराजपरिनुताः” इति । श्रादिशब्देन मृतवत्मादयो ग्रह्यन्ते । अतएवोशना, "अदण्या मृतवत्मा च संज्ञा रोगवती कृशा । श्रदण्ड्याऽऽगन्तुको गौश्च सूतिका चाभिमारिणौ ॥ श्रदण्ड्या चोत्सवे गावः श्राद्धकाले तथैवच”-दूति । * ग्राह,-इति शा। + वृक्षादापतितो,-इति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy