________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधव:
तदपभोगेनाविनश्वरग्टहक्षेत्रक्रयानुसयादिविषयम् । तत्रैव दशाहादरुकत्वात् । तथाच कात्यायनः,
"भूमेर्दशाहे विक्रेतुरायः तत्केतुरेव च । .
द्वादशाहः मपिण्डानामपि चाल्पमतः परम्” इति । वासोविषयेऽपि नारदः,
“परिभुक्तन्तु यदास: क्लिष्टरूपं मलौमसम् । सदोषमपि तत्कौतं विक्रेतुर्न भवेत्पुनः” इति ॥
इति क्रौतानुशयः ।
अथ विक्रौयासम्प्रदानम्। तस्य स्वरूपं नारदेनोक्तम्,
"विक्रौय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।
विक्रीयासम्प्रदानन्तत् विवादपदमुच्यते” इति । घण्यद्वैविध्यमुक्तं तेनैव,
"लोकेऽस्मिन् दिविधं द्रव्यं स्थावरं जङ्गमन्तथा । क्रयविक्रयधर्मेषु सर्वं तत्पण्यमुच्यते ॥ षड्विधम्तस्य तु बुधैः दानादानविधिक्रमः ।
गणिमन्तुलिमं मेयं क्रियया रूपतः श्रिया"-इति । गणिमं मङ्ख्येयं क्रमुकफलादि। तलिमं तुलया धाप्यं हेमचन्दसादि। मेयं ब्रीह्यादि। क्रियया वाहनदोहनादिक्रियोपलक्षितमश्व
इत्यमेव पाटः सर्वत्र ।
For Private And Personal Use Only