________________
Shri Mahavir Jain Aradhana Kendra
६६
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
भेरुण्डचासभासांश्च पारावतकपिञ्जलम् । पक्षिणा चैव सर्व्वेषामहेोराचमभोजनम् ॥८॥ इति टिट्टिभवत् पारावतेऽप्यवान्तरजातिभेदो द्रष्टव्यः । कपिञ्जलं हत्वा पचिणां हत्यायामिति शेषः ।
,
यदिदं मलिनीकरण विशेषस्य पक्षिबधस्य साधारणं प्रायश्चित्तमभिहितं, तस्य प्रदर्शनार्थत्वेनावशिष्टेऽपि मलिनीकरणे कृमिकौटादिबधे मद्यानुगतभोजने च प्रायश्चित्तमुन्नेयम् । तच्च विष्णुना दर्शितम्, -
बधे मनुराह -
"मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् " - दूति ॥
पक्षिषु कृम्यादिषु च सास्थ्यनस्थिभेदेन प्रायश्चित्तविशेषः स्मृत्य -
न्तरेऽभिहितः । तत्र मनुः,
“अस्थिमतान्तु सत्वानां सहस्रस्य प्रमापणे ।
पूर्णे चानस्यनम्नान्तु शद्रहत्याव्रतं चरेत् " - इति । याज्ञवल्क्योऽपि -
६ ० ।
“प्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । अस्थिमतां महस्रन्तु तथाऽनस्थिमतामनः " - दूति ।
शङ्खलिखितावपि, – “चुद्रजन्तूनामनस्यामनसः प्रमापणे शूद्रबधोऽस्थिमतां सहस्रं प्रमाप्य शूद्रबधः" - दूति । अस्थिमत्सहस्रबधे शकटपरिमितानस्थिमद्दधे च वच्यमाणशूद्रहत्याव्रतं चरेत् । प्रत्येक
" किञ्चिदेव तु विप्राय दद्यादस्थिमतां बधे ।
For Private And Personal Use Only