________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१९
धनिकस्य धनं दाप्यो राजा दण्डेन तत्समम् ॥ कुर्य्याच्च प्रतिभृर्वाद कार्य चार्थेऽर्थिना सह ।
सोपमर्गस्तदा दण्ड्यो विवादात् द्विगुणं दमम्”-दति । अत्र प्रतिक्रियाविधिः । तत्र याज्ञवल्क्यः,
"प्रतिभृर्दा पितो यत्र प्रकाशं धनिने धनम् । द्विगुणं प्रतिदातव्यं ऋणिकैस्तस्य तद्भवेत्” इति । धनिकेन पीडितः सन् प्रतिभूस्तमुतोवा जनसमक्षं राज्ञा यद्धन दापितस्तद्विगुणस्मृणिकः प्रतिभुवे दद्यात्। यदाह नारदः,
"यं चार्थ प्रतिभूर्दद्या निकेनोपपीडितः ।
ऋणिकः खातिभुवे द्विगुणं प्रतिदापयेत्” इति । कदा हि द्विगुणं दद्यादित्यपेक्षिते आह कात्यायनः,
“प्रतिभाव्यं तु यो दद्यात्पौड़ितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थ दिगुणं लधुमईति"-इति । द्वैगुण्यं हिरण्य विषयम् । पश्वादौ तु विशेषो याज्ञवल्क्येनोकः,
“सन्ततिः स्त्रीपशवेव धान्यं त्रिगुणमेवच ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तया"-इति । प्रातिभाव्ये निषेधानाह कात्यायनः,
“न स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । निरुद्धो दण्डितश्चेव मन्दिग्धश्चैव न क्वचित् ॥ नैव रिको न मित्रं वा न चैवात्यन्तवासिनः । राजकार्यनियुक्तश्च ये च प्रब्रजिता नराः ॥ नाशको धनिने दातुं दण्डं राज्ञे च तत्समम् ।
For Private And Personal Use Only