________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
पसपासमाधवः ।
खितमर्थिने नपेणार्थं दाप्यः। म भाषाकाले अर्थिनाऽनिवेदितत्, पश्चात् निवेद्यमानो न ग्राह्यो नादर्तव्यो नपेणेत्यर्थः । नारदोऽपि,
"अनेकार्थाभियुक्रेन सर्वार्थस्यापलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते” इति । ननु प्राचीनवचनानां प्रागनार्थाभिधाने धर्मनिर्णयार्थत्वं न स्थात्, छलानुमारेण तेषां व्यवहार निर्णयाभिधायकत्वात् । सत्यं, लथापि न दोषः। प्रागविषये व्यवहारनिर्णयस्य धर्मनिर्णयबाधकत्वात् । अतएव वृहस्पतिः,
“केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः ।
यवहारः स विज्ञयो धर्मस्तेनापि हौयते” इति । यत्तु कात्यायनवचनम्,
"अनेकार्थाभियोगे तु यावत्तत्माधयेद्धनम् ।
सातिभिस्तावदेवासौ लभते माधितं धनम्” इति । तत्पुत्रादिदेयपित्रादिऋणविषयम् । तत्र हि बहूनानभियुकः पुत्रादिर्न ज्ञायते इति वदनां निववादी न भवतीति एकदेशविभावितन्यायस्य तत्राप्रवृत्तिः। दिव्ये जयपराजयावधारणदण्डविशेष: कात्यायनेन दर्शितः,
"शतार्द्ध दापयेत् शुद्धं, न शुद्धो दण्डभाग्भवेत् ।
विर्ष तोये हुताशे च तण्डुले तप्तमाषके” इति । * इत्यमेव पाठः सर्वत्र । मम तु, पूर्व-इति पाठः प्रतिभाति।
धम्मनिणयाधायकत्वात्,-इति शा। । तदंश,-इति पू । मम तु, इति वदन् तदंश निहववादो,-इत्यादि पाठः प्रतिभाति । तदंशस्य अभियोगविषयाांशस्य, इत्यर्थः ।
For Private And Personal Use Only