SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । सन्धिक्रियादिभेदैर्यत्तत्सत्वा च मृणादिकम् । प्रत्यक्ष लेख्यते यस्य लेखितः स उदाहृतः ।। कुद्यव्यवहितो यस्तु श्राव्य ते ऋणभाषितम् । विनिहुते यथाभूतं गूढमाक्षी स कौर्त्तितः ॥ आहूय य: कृतः माक्षी ऋणन्यामक्रियादिके । स्मार्यते च मुद्धस्तत्र स्मारितः सोऽभिधीयते ॥ विभागे दानमाधाने ज्ञातिर्योपदिश्यते । द्वयोः समानधर्मज्ञः कुल्यम्स परिकीर्तितः ॥ अर्थिप्रत्यर्थिवचने श्टणुयात् प्रेषितस्तु यः । उभयोः सम्मतः साधुः दूतकः स उदाहृतः ।। क्रियमाणे तु कर्त्तव्ये यः कश्चित् स्वयमागतः । अत्र साक्षी त्वमस्माकमुकायादृच्छिको मतः ॥ यत्र माची दिशङ्गच्छन् मुमूर्षुर्वा यथास्मृतम् । अन्यं संश्रावयेत्तन्तु विद्यादुत्तरसाक्षिणम् ॥ उभाभ्यां यस्य विश्वस्तं कार्यञ्चापि निवेदितम् । कूटसाक्षी स विज्ञेयः कार्य्यमध्यगतस्तथा ॥ अर्थिप्रत्यर्थिनोर्वाऽपि यदृत्तं भूभृता स्वयम् । मएव तत्र माचौ स्यात् विसंवादे दयोस्तथा ॥ निणे ते व्यवहारे तु पुनायो यदा भवेत् । अध्यक्षः सभ्यसहितः साची स्थात् तत्र नान्यथा ॥ उषितं छादितं यत्र सौमायाञ्च समन्ततः । · सन्धिक्रियाकियाभेदैस्तस्य कृत्वा,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy